SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३८ श्राद्धविधिकौमुदीसक्षेपः अणावायमसंलोए, परस्सऽणुवघाइए। समे अझुसिरे वावि, अचिरकालकयम्मि अ॥ विच्छिन्ने दूरमोगाढे, नासन्ने बीलवज्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ . . अनापातोऽसंलोकश्च परस्य यत्र । उपघातः पिट्टनादिना उड्डाहादिर्यत्र न २॥ समे अलुठने ३। अझुसिरे यत्तृणादिच्छन्नं न, तत्र हि वृश्चिकादिर्दशति कीटिकादिर्वा प्लाव्यते ४। अचिरकालकृते द्विमासिके ऋतौ वयादिना प्रासुके, द्वितीयऋतौ तु तन्मिश्रं स्यात्, यत्र तु वर्षासु ग्राम उषितः स प्रदेशो द्वादशवर्षाणि स्थण्डिलं ५। विस्तीर्णे जघन्यतोऽपि हस्तमात्रे ६i दूरमोगाढे दूरमधोऽवगाह्याऽग्न्यादितापेन. जघन्यतोऽपि चत्वार्यङ्गलानि प्रासुकीकृते ७ अनासन्ने द्रव्यासन्नं धवलगृहारामादीनामासन्नं न व्युत्सृजति भावासनं अतिवेगे आसन्नमेव व्युत्सृजति ८५ बिलवजिते ९। त्रसप्राणबीजरहिते १। तथा-. .. दिसिपवणगामसूरिअछायाइ पमज्जिऊण तिक्खुत्तो। जस्सुग्गहुत्ति काउण, वोसिरे आयमिज्जा वा ॥ उत्तरपुव्वा पुज्जा, जंमाए निसिअरा अहिवडंति । घाणारिसाय पवणे, सूरिअ गामे अवन्नो अ॥ संसत्तग्गहणो पुण, छायाए निग्गयाइ वोसिरए । छायासइ उण्हम्मि वि, वोसिरिअ मुहत्तगं चिट्टे ॥ मुत्तनिरोहे चक्खू, वच्चनिरोहे अ जीवियं चयइ। ऊड्डनिरोहे कुटुं, गेलनं वा भवे तिसुवि ॥ इत्यादि । मलमूत्रश्लेष्मादीनां चाऽप्युत्सर्गे पूर्व-अणुजाणह जस्सुग्गहो इति वदेत्, व्युत्सर्गादनु च सद्यो वोसिरेइत्ति त्रिश्चिन्तयेत् । श्लेष्मादीनां च धूल्याच्छादनादियतनामपि कुर्यात्, अन्यथा तेष्वसङ्ख्यसम्मूर्छिममनुष्यसम्मूर्छनविराधनादिदोषः । यदुक्तं प्रज्ञापनोपाङ्गे प्रथमपदे
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy