________________
प्रथमः प्रकाशः
२९
संरक्षणार्थं श्रुतज्ञानप्रामाण्यज्ञापनार्थं च तथाहि न सामान्य श्रुतज्ञानी बाह्यशस्त्रसम्पर्क विना जलाद्यचित्तमिति व्यवहरति, अतो बाह्यशस्त्रसंपर्काद्वर्णादिभिः परिणामान्तरापन्नमेव जलाद्यचित्तं व्यापार्यम् । कङ्कटुकमुद्ग- हरीतकी-कुलकादिरचेतनोऽप्यविनष्टयोनिरक्षणार्थं निःशूकतादिपरिहारार्थं च दन्तादिभिर्न भज्यते । यदुक्तं श्री ओघनिर्युक्तौ पञ्चसप्ततितमगाथावृत्तौ-‘‘ननु कस्मादचित्तवनस्पतियतना ? उच्यते, यद्यप्यचित्तस्तथापि केषाञ्चिद्वनस्पतीनामविनष्टा योनिः स्यात् गुडूचीमुद्गादीनां तथाहि - गुडूची शुष्काऽपि जलसेकात्तादात्म्यं भजन्ती दृश्यते, एवं कङ्कुटुकमुद्गादिरपि, अतो योनिरक्षणार्थमचेतनयतनाऽपि न्यायवत्येवेति ।" एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमं व्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तुनैयत्यकरणादिना स्वीकार्यं, यथा आनन्दकामदेवादिभिः । तथासङ्क्षेपाशक्तौ तु सामान्यतो दिनं प्रति एकद्वयादिसचित्तदशद्वादशादिद्रव्यैकद्वयादिविकृत्यादिनियमं कुर्यात् परं दिनं प्रति एकसचित्ताभिग्रहिणोऽप्येवं नियमग्रहणे पृथक् पृथक् दिनेषु परावर्त्तेन सर्वसचित्तग्रहणमपि स्यात्, तथा च न विशेषविरतिः, नामग्राहं सचित्तनैयत्याभिग्रहे तु तद्न्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलम् । उक्तञ्च—
पुप्फफलाणं च रसं, सुराइमंसाण महिलिआणं च । जाणंता जे विरिया, ते दुक्करकारए वंदे ॥
सचित्तेषु च सर्वेष्वपि नागवल्लीदलान्येव दुस्त्यजानि, शेषसचित्तानां प्रायः सर्वेषां प्रासुक़ीभवनेऽपि स्वादुतादियोगाद्विशिष्य चाम्रादीनां, नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी, तत एव तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यग् दिवा संशोध्यैव, ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानिं कामाङ्गत्वात्तेषां प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादाव
"