________________
३०
सङ्ख्यजीवविराधनासम्भवः । यदागमः -
श्राद्धविधिकौमुदीसङ्क्षेपः
जं भणिअं पज्जत्तगनिस्साए वुक्कमंतऽपज्जता । जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता ॥
बादरेष्वेकेन्द्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तः तत्र तन्निश्रया नियमादसङ्ख्याः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ (आ० १ १-२ मि० ७९ वृत्तिः) प्रोक्तम् । एवमेकस्मिन्नपि पत्रादावसङ्ख्या जीवा विराध्यन्ते, तदाश्रितजलनील्यादिसम्भवे त्वनन्ता अपि । जललवणादि चासङ्ख्यजीवात्मकमेव । यदा
एगम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पन्नत्ता । तेजइ सरसवमित्ता, जंबूद्दीवे न मायंति ॥ अद्धामलगपमाणे, पुढवीक्काएं हवंति जे जीवा । ते पारेवयमित्ता, जंबूद्दीवे न मायंति ॥
I
सर्वसचित्तत्यागे च अम्बडपरिव्राजकसप्तशतीशिष्यज्ञातम् । एवं सचित्तत्यागे यतनीयम् । येन च चतुर्दश नियमाः प्राक् स्वीकृताः स्युः, तेन प्रत्यहं ते सङ्क्षेप्या, यथाशक्ति अन्येन वा ग्राह्याः । ते चैवमुक्ताःसचित्त-दव्व-विग़ई-वाणह - तंबोल- वत्थ - कुसुमेसु ।
वाहण-सयण- - विलेवण- बंभ-दिसि - न्हाण-भत्तेसु ॥
मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं तदशक्तौ नामग्राहं सामान्यतो वा एकद्वयादि तन्नियम्यम् । यदुक्तं
,
निरवज्जाहारेणं, निज्जीयेणं परित्तमीसेणं । अत्ताणुसंधणपरा सुसावगा एरिसा हुंति ॥
सचित्तनिमित्तेणं मच्छा गच्छंति सत्तमं पुढविं । सच्चित्तो आहारो, न खमो मणसावि पत्थेउं ॥
इति सचित्तविकृतिवर्जं यन्मुखे क्षिप्यते तत्सर्वं द्रव्यं, क्षिप्र-क्षिप्रारोट्टिका - निविकृतिकमोदक-लयनेप्सिता- पर्यटिका - चूरिम-करम्बक्षैरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यं,
-