________________
श्राद्धविधिकौमुदीसक्षेपः अत्राचार्यः प्राह-अशुचित्वात् स्वपात्रेषु ग्रहणस्य प्रतिषेधः, ततो गृहीभाजने कुण्डिकादौ ग्राह्यं, वर्षति मेघे च तन्मिश्र, ततः स्थिते वर्षेऽन्तर्मुहूर्तादूर्ध्वं ग्राह्यं, जलं हि केवलं प्रासुकीभूतमपि प्रहरत्रयादूज़ भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षिप्यते, एवं च स्वच्छतापि स्यादिति पिण्डनियुक्तिवृत्तौ (गा० ३२) । तन्दुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिस्कृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि । प्रासुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्धारादौ
उसिणोदगं तिण्हुक्कालिअं फासुअजलं जईकप्पं । नवरि गिलाणाइकए पहरतिगोवरिवि धरियव्वं ॥ . . . जायइ सचित्तया से गिम्हासु पहरपंचगस्सुवरि ।
चउपहरूवरि सिसिरे, वासासु जलं तिपहरूवरि ॥ जायते सचित्तता से तस्योष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थं धृतस्य ग्रीष्मे प्रहरपञ्चकस्योपरि प्रहरपञ्चकादूर्ध्वं कालस्यातिरूक्षत्वाच्चिरेणैव जीवसंसक्तिसद्भावात्, तथा शिशिरे शीतकाले कालस्य स्निग्धत्वात्प्रहरचतुष्टयादूर्ध्वं सचित्तता स्यात् । वर्षासु पुनः कालस्यातिस्निग्धत्वात्प्रासुकीभूतमपि जलं प्रहरत्रयादूर्ध्वं सचित्तं, तदूर्ध्वमपि यदि ध्रियते, तदा क्षारः प्रक्षेप्यो, येन न भूयः सचित्तं स्यादिति । १३६ द्वारे। यश्चाप्कायादिः स्वभावादेवाचित्तीस्यान्न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जतेऽनवस्थाप्रसङ्गभीरुतया । यतः श्रूयते भगवता श्रीवर्द्धमानेन शैवलपटलत्रसादिरहितो महादोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानां प्राणान्तसङ्कटेऽपि पानाय नाऽनुजज्ञे, एवं क्षुधाशरीरचिन्तया च बाधितानामप्यचित्ततिलशकटचित्तस्थण्डिलपरिभोगानुज्ञा न कृता, अनवस्थादोष
१. तिगंडुक्क इति को० ह० प्र० पाठः ।