________________
२७
प्रथमः प्रकाशः सफलादि, यच्च यत्र देशादौ जने विरुद्धं 'कादन्तुबक-कुष्माण्डादि तत्र तदपि त्याज्यमन्यथा जिनधर्मेऽपभ्राजनाद्यापत्तेः । अभक्ष्यानन्तकायिके तु परगृहादौ प्रासुकभूते अपि न ग्राह्ये, निःशूकताप्रसङ्गवृद्धयादिदोषसम्भवात्, अत एवोत्कालिकसेल्लरकं राद्धार्द्रकसूरणवृन्ताकादि प्रासुकमपि सर्वं वयं, प्रसङ्गदोषपरिहाराय, मूलकस्तु पञ्चाङ्गोऽपि त्याज्यः, शुण्ठ्यादि तु नामस्वादभेदादिना कल्पते, उष्णनीरं तु त्रिदण्डोत्कलनावधि मिश्रम् । यदुक्तं पिण्डनियुक्तौ
उसिणोदगमणुवत्ते, दंडे वासे अ पङिअमित्तंम्मि ।
मुत्तूणदेसतिगं, चाउलउदगं बहुपसन्नं ॥ अनुवृत्तेषु त्रिषु दण्डेषु उत्कालेषु जलमुष्णं मिश्रं ततः परमचित्तं, तथा वर्षे वृष्टौ पतितमात्रायां ग्रामादिषु प्रभूत-मनुष्यप्रचारभूमौ यज्जलं तद्यावन्न परिणमति तावन्मिनं, अरण्यभूमौ तु यत् प्रथमं पतति तत् पतितमात्रं मिश्रं पश्चान्निप्रतत्सच्चित्तं, आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्नं मिश्र, अतिस्वच्छीभूतं त्वचित्तं, अत्र त्रय आदेशा यथा केचिंद्वदन्ति, तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपार्चे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् । अपरे तु तथैव जाता यावद् बुद्बुदा न शाम्यन्ति तावत् । अन्येतु यावत्तन्दुला न सिध्यन्ति तावत्, एते त्रयोऽप्यनादेशा, रूक्षेतरभाण्डपवनाऽग्निसम्भवाऽसम्भवादिभिरेषु कालनियमस्याऽभावात्ततोऽतिस्वच्छीभूतमेवाचित्तम् । .. ___. निव्वोदगस्स गहणं, केई भाणेसु असुइपडिसेहो ।
गिहिभायणेसु गहणं, ठिअवासे मीसगं छारो ॥ (पि. नि. ३२) नीव्रोदकं हि धूमधूम्रीकृतदिनकरकरसम्पर्कसोष्मनीव्रसम्पर्कादचित्तमतस्तद्ग्रंहणे न काचिद्विराधना । केचिदाहुः स्वभाजनेषु तद् ग्राह्यम्,
१. कटुतुम्बक इति को० ह० प्र० पाठः ।