________________
श्राद्धविधिकौमुदीसक्षेपः वारान् प्रत्युपेक्ष्यास्तथापि चेद् दृष्टास्ततः पुनर्नव वारानेवं शुद्धा भोज्याः, अथ न शुद्धास्तदा परिष्ठाप्याः, असंस्तरणे तु तावत्प्रत्युपेक्ष्यन्ते, यावच्छुद्धाः स्युः, ऊरणिकाश्च घरट्टादिपार्श्वस्थप्रभूततुषरूपे आकारे तदभावे कर्परादौ स्तोकसत्तू न् क्षिप्त्वाऽनाबाधप्रदेशे स्थाप्यन्त इति । पक्वान्नाद्याश्रित्य चैवमुक्तं
वासासु पनरदिवसं सीउण्हकालेसु मासदिणवीसं ।
ओगाहिमं जईणं, कप्पइ आरब्भ पढमदिणा ॥ केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद् गन्धरसादिना न विनश्यति तावदवगाहिमं शुध्यतीत्याहुः । ।
जइ मुग्गमासपभिई, विदलं कच्चंमि गोरसे पडइ । ..
ता तसजीवुप्पत्ति, भणति दहिएंवि दुदिणुवरि ॥ . 'तिदिणुवरि' इति पाठस्तु सम्यग् न सम्भाव्यते, 'दध्यहद्वितयातीतम्' इति हैमवचनात् ।
जम्मि उ पिलिज्जंते, नेहो नहु होइ बिंति तं विदलं ।
विदले वि हु उप्पन्नं, नेहजुअं होइ नो विदलं ॥ पर्युषितं द्विदल-पूपिकादि-केवलजलराद्धकूरादि तथान्यदपि सर्वं कुथितान्नं पुष्पितौदनपक्वान्नादि चाभक्ष्यत्वेन वर्जनीयं, द्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायव्यक्तिस्वरूपं मत्कृतश्राद्धप्रतिक्रमणसूत्रवृत्तेर्जेयम् । विवेकिना चाऽभक्ष्यवद् बहुबीजजीवाकुलत्वादिना रिंगणकाय-माटीटिंबरु-जम्बू-बिल्वार्द्रपीलु-पक्वकरमन्द-गुन्दीफल-पिंचू-मधूक-मकुरवाल्हउलि-बृहद्बदरक-कच्चकुठिभड-खसखस-तिल-सच्चित्तलवणाद्यपि वयं, यच्च रक्ताद्यनीदृशच्छायं पक्वगोल्हककंकोडकफण
१. सम्यक् सम्भाव्यते इति को० ह० प्र० पाठ: ।
.