SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः जव - जवजव - गोहुम- सालि-वीहि धण्णाण कुट्टयाईसु । खिविणं उक्को, वरसतिगं होइ सजीवत्तं ॥ तिल- मुग्ग-मसूर - कलाय - मास-चवलय- कुलत्थ - तुवरीण । तह वट्ट-चणय-वल्लाण वरिसपणगं सजीवत्तं ॥ अयसी - लट्टा- कंगू-कोडूसग - सणवट्टसिद्धत्था । कुद्दव-रालय - मूलगबीआणं सत्तवरिसाणि ॥ २५ कर्पासस्य चाऽचित्तता त्रिवर्ष्या स्यात्, यदुक्तं श्रीकल्पबृहद्भाष्ये'सेडुगं तिवरिसाइं ।' गिण्हंति सेडुगं त्रिवर्षातीतं विध्वस्तयोनिकमेव गृहीतुं कल्पते, सेडुकः कर्पास इति तद्वृत्तौ पिष्टस्य तु मिश्रतादि एवमुक्तं पूर्वसूरिभि: पणदिणमीसो लुट्टो, अचालिओ सावणे अ भद्दवए । चड आसोए कत्तिअ, मगसिरपोसे तिन्नि दिणा ॥ पपहर माहफग्गुणि, पहरा चत्तारि चित्तवइसाहे । जिट्ठासाढे तिपहरं तेण परि होइ अचित्तो ॥ चालितं तु पिष्टं मुहूर्त्तादुर्ध्वमचित्तम् । ननु पिष्टाद्यचित्तीभूतं कियद्दिनान्यचित्तभोजिनः कल्पते ? उच्यते, नात्र दिननियमः सिद्धान्ते श्रूयते, परं नव्यजीर्णकणादिद्रव्य - सरसनीरसादिक्षेत्र-वर्षाशीतोष्णादिकालतत्तत्परिणामादिभावविशेषेण पक्षमासाद्यवधियावद्वर्णगन्धरसादिविपरिणाम इलिकादिजीवसंसक्तिश्च न स्यात्तावत्कल्पते । साधूनाश्रित्य सक्तुयतना कल्पवृत्तितुर्यखण्डे त्वेवमुक्ता यत्र देशादौ सक्तूनां संसक्तिः तत्र ते न ग्राह्या, अनिर्वाहे तद्दिनकृता ग्राह्याः, तथाप्यनिर्वाहे द्वित्रिदिनकृताः पृथक् पृथग् ग्राह्याः, चतुर्दिनकृतादयस्तु सर्वेऽप्येकत्र ग्राह्याः, तेषामयं विधिः- रजस्त्राणमधः प्रस्तार्य तस्योपरि पात्रकम्बलं कृत्वा तत्र सक्तवः प्रकीर्यन्ते, तत ऊर्ध्वमुखं पात्रकबन्धं कृत्वा एकस्मिन् पार्श्वे नीत्वा यास्तत्रोरणिका लग्नास्ता उद्धृत्य कर्परे क्षिप्यन्ते, एवं नव वारान् प्रत्युपेक्षणे यदि न दृष्टाः प्राणिनस्तदा भोक्तव्यास्ते, अथ दृष्टास्तदा पुनर्नव
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy