SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधिकौमुदीसङ्क्षपः वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत् पत्रादिकमिति श्रीकल्पवृत्तौ । शाल्यादिधान्यानां तु श्रीपञ्चमाङ्गे षष्ठशते 'सप्तमोद्देशके सचिताचित्तत्वविभाग एवमुक्त:____ अह भन्ते ! सालीणं वीहीणं गोहूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं पिहिआणं मुदिआणं लंछिआणं केवइअं कालं जोणी संचिढ़इ, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि संवच्छराइं, तेण परं जोणीपमिला( ली )इं. विद्धंसइ बीए अबीए भवति।' ___ 'सालीणंति' कलमादीनां 'वीहीणंति' सामान्यतः "जवजवाणंति' यवविशेषाणां, पल्यो वंशादिमयः मञ्चमालयोरयं भेदः, 'अकुड्डो होइ मंचो मालो अ घरोवरि होइ ।' अयुक्तानां सङ्ग्रहीतानां, द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां, सर्वतो गोमयादिनैव लिप्तानां, मुद्रितानां तथाविधाच्छादनेनाच्छादितानां, लाञ्छितानां रेखादिना कृतलाञ्छनानां, योनिरङ्करोत्पत्तिहेतुः । एवं , . ____ अह भन्ते ! कलाय-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थअलिसंदग-सईणपलिमंथ-ग़माईणं एएसि णं धन्नाणं, जहा सालीणं तहा एआणवि । नवरं पंच संवच्छराई सेसं तं चेव । कलायास्त्रिपुटाख्यं धान्यं, अन्त्यधान्यत्रयं चपलकतुवरीवृत्तचणकरूपं सम्भाव्यते । अग्रे गाथासु तथोक्तेः । अह भन्ते ! अयसि-कुसुंभग-कोद्दव-कंगु-वरट्ट-रालाग-कोडू-सगसण-सरिसव-मूलबीआईणं धन्नाणं, तहेव नवरं सत्त संवच्छराई। अत्र पूर्वसूरिकृता गाथा यथा १. पञ्चमोद्देशके इति को० ह० प्र० पाठः । ..
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy