SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः आरुहणे ओरुहणे निसिअणगोणाइणं च गाउन्हा । भुम्माहारच्छेए, उवक्कमेणं च परिणामो ॥ शकटे गवादिपृष्ठेषु च लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादि आहारः तद्व्यवच्छेदे तस्य परिणामः उपक्रमः शस्त्रं, तच्च विधा, स्वकायपरकायतदुभयरूपं, तत्र स्वकायशस्त्रं यथा लवणोदकं मधुरोदकस्य, कृष्णभूमिर्वा पाण्डुभूमेः, परकायशस्त्रं यथाऽग्निरुदकस्य, उदकं चाग्नेरिति, तदुभयशस्त्रं यथा उदकमृत्तिके शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि । . उप्पलपउमाई पुण, उन्हे दिन्नाइं जाम न धरिति । मोग्गरगजूहिआओ, उण्हे छुढा चिरं हुंति ॥ ... मगदंतिअपुष्फाईं, उदए छूढाइं जाम न धरिति । उप्पलपउमाइं पुण, उदए छूढा चिरं हुंति ॥ उत्पलानि पद्मानि च उदकयोनिकत्वादुष्णे आतपे दत्तानि याम प्रहरमात्रं कालं नं ध्रियन्तेनावतिष्ठन्ते, किन्तु प्रहरादर्वागेवाऽचित्तीभवन्ति । मोगरकाणि मृगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः । मृगदन्तिकापुष्पाणि उदके क्षिप्तानि यामं प्रहरमपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति । ___ पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरियाणं । विटम्मि मिलाणंमी, नायव्वं जीवविप्पजढं ॥ पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां, तथैव हरितानां १. आहारः स इति को० ह० प्र० पाठः ।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy