________________
श्राद्धविधिकौमुदीसक्षेपः खारिकि-किसिमिसि-द्राक्षा-खजूर-मरिच-पिप्पली-जातिफल-बदामवायम-अखोड-नमिजांजिर-गोजां-पिस्तां-चणीकबावा-स्फटिकानुकारिसैन्धवादीनि, सज्जिकाबिडलवणादिः कृत्रिमः क्षारः, कुम्भकारादिपरिकर्मितमृदादिकम्, एला-लवंग-जावित्री-शुष्कमुस्ताकोंकणादिपक्वकदलीफलानि, उत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीति व्यवहारो दृश्यते। उक्तमपि श्रीकल्पे -
जोअणसयं तु गंतुं, अणहारे तुण्ण भंडसंकती।
वायागणिधूमेण य, विद्धत्थं होइ लोणाई ॥ लवणादिकं स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तमचित्तं भवति । आह शस्त्राभावे योजनशतगमनमात्रेणैवं कथमचित्तीभवतीत्याह-अनाहारेण यस्य यदुत्पत्तिदेशादिकं साधारणं तत्ततो व्यवच्छिन्नं स्वोपष्ठम्भकाहारविच्छेदाद्विध्वस्यते, तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्मात्पूर्वस्माद् भाजनादपरभाजनेषु, यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते । तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति । लोणाई इत्यत्राऽऽदिशब्दादमी द्रष्टव्या
हरिआलमणोसिलपिप्पली अ खज्जूरमुद्दिया अभया।
आईन्नमणाइन्ना, ते वि हु एमेव नायव्वा ॥ . हरितालं मनःशिला पिप्पली च खजूरः । एते प्रतीताः, मुद्रिकाद्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद् योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राऽऽचीर्णा अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते, खजूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते ।