________________
प्रथमः प्रकाशः . नियमनीयानि । . . ततो यथाशक्ति द्वादशव्रतस्वीकारः, तत्र च सप्तमव्रते सचित्ताचित्तमिश्रव्यक्तिः सम्यग् ज्ञेयः । यथा प्राय: सर्वाणि धान्यानि धानकजीरकाजमक-विरहाली-सोआ-राई-खसखस-प्रभृतिसर्वकणाः, सर्वाणि फलपत्राणि, लवण-खारी-क्षारक-रक्तसैन्धव-सञ्चलादिरकृत्रिमः क्षारो, मृत्-खटी-वर्णिकादिः आर्द्रदन्तकाष्ठादि च व्यवहारतः सचित्तानि । जलेन क्लेदिताश्चणकगोधूमादि-कणाश्चणकमुद्गादिदालयश्च क्लिन्ना अपि क्वचिन्नखिकासम्भवान्मिश्राः, तथा पूर्वं लवणादिप्रदानं बाष्पादिप्रदानं वालुकाक्षेपं वा विना सेकिताश्चणका गोधूमयुगन्धर्यादिधानाः, क्षारादिप्रदानं विना लोलिततिला; ओलक-उंबिका-पृथुक-सेकितफलिकापर्पटिकादयो मरिच-राजिका-वघारादिमात्रसंस्कृतचिर्भटिकादीनि सचित्तान्तर्बीजानि सर्वपक्वफलानि च मिश्राणि । यद्दिने तिलकुट्टिः कृता तद्दिने मिश्रा, मध्येऽन्नरौट्टिकादिक्षेपे तु मुहूर्तादनु प्रासुका, दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः । वृक्षात्तत्कालगृहीतं गुन्द-लाक्षा-छल्ल्यादि, तात्कालिको नालिकेरनिम्बक-निम्बाऽऽप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं, तत्कालभग्नं निर्बीजीकृतं नालिंकेर-शृङ्गाटक-पूगीफलादि, निर्बीजकृतानि पक्वफलानि, गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्तं यावन्मिश्राणि, मुहूर्तादूर्ध्वं तु प्रासुकानीति व्यवहतिः । अन्यदपि प्रबलाग्नियोगं विना यत्प्रासुकीकृतं स्यात् तन्मुहूत्तावधि मिश्रं तदनु प्रासुकं व्यवह्रियते, यथा प्रासुकनीरादि, तथा कच्चफलानि कच्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रासुकानि । यदुक्तं श्रीपञ्चमाङ्गे अयमर्थ एकोनविंशे शते तृतीयोद्देशके-"वज्रमय्यां शिलायां स्वल्पपृथ्वीकायस्य वज्रलोष्टकेनैकविंशतिवारान् पेषणे सन्त्येके केचन जीवा ये स्पृष्टा अपि नेति ।" योजनशतात्परत आगतानि हरीतकी