________________
श्राद्धविधिकौमुदीसक्षेपः चतुर्थाकारोच्चारान्न भङ्गः । एवं सर्वेषु नियमेष्वपि भाव्यम् । उक्तञ्च
वयभंगे गुरुदोसो, थोवस्सवि पालणा गुणकरी अ।
गुरूलाघवं च नेअं, धम्मम्मि अओ अ आगारा ॥ नियमश्च महाफलः, यदि ह्यासन्नकुम्भकृत्खलतिं दृष्टां बिना न भोक्ष्ये इति कौतुकमात्रगृहीतोऽपि नियमः श्रेष्ठिकमलस्य निधानार्द्धप्राप्त्या सफलीभूतः, तदा पुण्यार्थं नियमफलं कियदुच्यते ? तथाह
योऽपि सोऽपि ध्रुवं ग्राह्यो नियमः पुण्यकाक्षिणा । . . . ___ सोऽल्पोऽप्यनल्पलाभाय कमलश्रेष्ठिनो यथा ॥ ...
परिग्रहपरिमाणनियमदृढतायां रत्नसारकुमारकथाऽग्रे वक्ष्यते । नियमाश्चैवं ग्राह्या, तत्र पूर्वं तावन्मिथ्यात्वं त्याज्यं, ततो नित्यं यथाशक्ति त्रिर्द्विः सकृद्वा जिनपूजा, जिनदर्शनं, सम्पूर्णदेववन्दनं, चैत्ववन्दना वा कार्येति नियम्यम् । एवं सामग्रयां गुरोर्ब्रहल्लघु वा वन्दनम्, सामग्र्यभावे नामग्रहणेन वन्दनं, नित्यं वर्षाचतुर्मास्यां पञ्चपादौ वाऽष्टप्रकारा पूजा, यावज्जीवं नव्यान्नपक्वान्न-फलादेर्देवस्य ढौकनं विना अग्रहणं, नित्यं नैवेद्यपूगादेढौंकनं, नित्यं चतुर्मासीत्रयवार्षिकदीपोत्सवादौ वा अष्टमङ्गलिकढौकनं, नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनं, प्रतिमासं प्रतिवर्षं वा महाध्वजप्रदानादिविस्तरेण स्नात्रमहमहापूजा, रात्रिजागरणादि, नित्यं वर्षासु कियद्वारं वा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष प्रतिमासं वा
चैत्येऽङ्गरूक्षण-दीपार्थपूणी-कियद्दीपतैल-चन्दनखण्डादेः, शालायां मुखवस्त्र-जपमाला-प्रोञ्छनक-चरवलकाद्यर्थं कियद्वस्त्रसूत्रकम्बलोर्णादेश्च मोचनं, वर्षासु श्राद्धादीनामुपवेशनार्थं कियत्पट्टिकादे: कारणं, प्रतिवर्ष सूत्रादिनाऽपि सङ्घपूजा कियत्सार्मिकवात्सल्यादि च, प्रत्यहं कियान् कायोत्सर्गः, स्वाध्यायत्रिशत्यादिगुणनं, नित्यं दिवा नमस्कारसहितादे रात्रौ दिवसचरमस्य च प्रत्याख्यानस्य करणं, द्विप्रतिक्रमणादि चादौ