________________
प्रथमः प्रकाशः
१९ नगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषाम् । उक्तमपि
अभ्यासेन क्रियाः सर्वा अभ्यासात् सकला: कलाः ।
अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ? ॥ निरन्तरं विरतिपरिणामाभ्यासे च प्रेत्याऽपि तदनुवृत्तिः स्यात् । यदुक्तं
जं अब्भसेइ जीवो, गुणं च दोसं च एत्थ जम्मम्मि ।
तं पावइ परलोए, तेण य अब्भासजोएण ॥ तस्माद् यथेच्छमपि द्वादशव्रतप्रतिबद्धनियमा विवेकिना स्वीकार्याः । अत्र च श्राद्धश्राविकायोग्यमिच्छापरिमाणं सविस्तरं व्याख्येयं, यथा तन्नियमानां सम्यक् परिज्ञानपूर्वं प्रतिपत्तौ भङ्गादिदोषो न स्यात् । नियमाश्च विमर्शपूर्वकं तथैव ग्राह्या यथा निर्वोढुं शक्यन्ते । सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यं, तेनाऽनाभोगादिना । नियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न स्यात्, किन्तु अतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव, जातु दुष्कर्मपारवश्येन ज्ञात्वापि भङ्गेऽग्रतो नियमः पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सच्चित्तजलपानताम्बूलभक्षणकियद्भोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किन्तु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति, तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्य, समाप्तौ चे तत्तपो वर्द्धमानं कार्यम्, एवं चातिचार एव स्यान्न तु भङ्गः। तपोदिनज्ञानादनु सिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः, दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः, गाढमान्द्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्नोति, तदापि
१. चिन्त्यतेऽना इति को० ह० प्र० पाठः ।