________________
श्राद्धविधिकौमुदीसक्षेपः मातृप्रभृतिवृद्धानां नमस्कारं करोति यः । तीर्थयात्राफलं तस्य तत्कार्योऽसौ दिने दिने ॥ अनुपासितवृद्धानामसेवितमहीभुजाम् ।
अवारमुख्यासुहृदां दूरे धर्मार्थतुष्टयः ॥ प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्वं सच्चित्तादिचतुर्दशनियमग्रहणं स्यात् । अप्रतिक्रामकेनापि सूर्योदयात् प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितादि ग्रन्थिसहितादि व्यासनैकासनादि यथागृहीतसच्चित्तद्रव्यविकृतिनैयत्यादिनियमोच्चारणरूपं देशावकाशिकं च कार्यम् ।
विवेकिंना हि पूर्वं सद्गुरुपाद्यं सम्यक्त्वमूलः श्रावकधर्मो यथाशक्ति द्वादशव्रतात्मकः प्रतिपत्तव्यः । तथा सति सर्वाङ्गीणविरतेः सम्भवाद्, विरतेश्च महाफलंत्वाद्, अविरतेश्च निगोदादीनामिव मनोवाक्कायव्यापाराभावेऽपि बहुकर्मबन्धादिमहादोषात् । तथा चोक्तं
भाविना भविना येन स्वल्पापि विरतिः कृता । स्पृहयन्ति सुरास्तस्मै स्वयं तां कर्तुमक्षमाः ॥ अकुर्वन्तोऽपि कवलाहारमेकेन्द्रियाङ्गिनः । यन्नोपवासपुण्याढ्यास्तत्तत्राविरतेः फलम् ॥ . सावचं चित्तवाक्कायैरकर्वन्तोऽपि जन्मिनः ।। अनन्तकालमेकाक्षास्तिष्ठन्त्यविरतेः खलु ॥ तिरिया कसंकुसारा, निवायवहबंधमारणसयाई।
नेव इहं पावंता, परत्थ जइ निअमिआ हुंता ॥ अविरतिकर्मोदये हि देवानामिव गुरूपदेशादियोगेऽपि विरतिप्रतिपत्तिः कापि न स्याद्, अत एव श्रेणिकनृपः क्षायिकसम्यग्दृष्टिरपि श्रीवीरवचःश्रवणादियोगेऽपि काकादिमांसमात्रनियममपि न स्वीचक्रे । अविरतिश्च विरत्या जीयते, विरतिश्चाभ्याससाध्या, अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति । अनुभवसिद्धं चेदं लिखनपठनसङ्ख्या