SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १७ प्रथमः प्रकाशः . अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिन्तासन्ततिसम्भवः ॥ देवताद्युपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वप्नः स्यान्नवधा नृणाम् ॥ युग्मम् । प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरैः ॥ रात्रैश्चतुर्षु यामेषु दृष्टः स्वप्नः फलप्रदः । मासैदशभिः षड्भिस्त्रिभिरेकेन च क्रमात् ॥ निशाऽन्त्यघटिकायुग्मे दशाहात्फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः सद्यः फलति निश्चितम् ॥ मालास्वप्नोऽह्नि दृष्टश्च तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपीडोत्थः स्वप्नः सर्वो निरर्थकः ॥ अशुभः प्राक् शुभः पश्चात् शुभो वा प्रागथाशुभः । पाश्चात्यः फलदः स्वप्नो दुःस्वजे शान्तिरिष्यते ॥ . स्वप्नचिन्तामणिशास्त्रेऽपि स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपिं निशामवाप्याथ । न कथं कथमपि कथयेत्केषाञ्चित् फलति न स यस्मात् ॥ · उत्थाय जिनं प्रातर्ध्यायति यः स्तौति वाऽथवा स्मरति । पञ्चनमस्कृतिमन्त्रं दुःस्वप्नस्तस्य वितथः स्यात् ॥ पूजादीन्यपि रचयेद्देवगुरूणां तपश्च निजशक्त्या । सततं धर्मरतानां दुःस्वप्नो भवति सुस्वप्नः ॥ देवगुरूणां स्मरणं नामग्रहणं सुतीर्थसूरीणाम् । विरचय्य स्वपिति यदा न कदाऽप्याजोति दुःस्वप्नम् ॥ निष्ठीवनेन दद्वादेस्ततः कुर्यान्निघर्षणम् । अङ्गदााय पाणिभ्यां वज्रीकरणमाचरेत् ॥ प्रातः प्रथममेवाथ स्वपाणिं दक्षिणं पुमान् । पश्येद्वामं तु वामाक्षी निजपुण्यप्रकाशकम् ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy