________________
श्राद्धविधिकौमुदीसझेपः क्रामति तेनापि रागादिमयकु स्वप्न-प्रद्वेषादिमयदुःस्वप्नयोरनिष्टसूचकतादृक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलम्भेऽष्टोत्तरशतोच्छासमानः कायोत्सर्गः कार्यः, अन्यथा तु शतोच्छ्वासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये
पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे सुमिणे.। ..... सयमेगं तु अणूणं, ऊसासाणं झविज्जाहि ॥.. महव्वयाइं झाइज्जा सिलोगे पंचवीसई ।
इत्थीविप्परिआसे अ सत्तावीससिलोइओ ॥ (व्य० भा० ११९-२०) प्राणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च; मैथुने तु कृते द्वितीयगाथोत्तराद्धेऽष्टोत्तरशतोच्छासोत्सर्गस्योक्तत्वात् कारितेऽनुमोदिते च शतमेकमन्यूनमुच्छासानां क्षपयेत् । पञ्चविंशत्युच्छासप्रमाणं चतुविंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः । अथवा महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत् । तेषामपि प्राय: पञ्चविंशतिश्लोकमानत्वात् । यदि वा यान् तान् वा स्वाध्यायभूतान् पञ्चविशतिश्लोकान् ध्यायेदिति ॥ तद्वृत्तौ आद्यपञ्चाशकवृत्तावपि जातु मोहोदयात् कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायेर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छासप्रमाणः कायोत्सर्गः कार्य इति । कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग्बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते । जातु दिवापि निद्रायां कुस्वप्नाद्युपलम्भे एवं कायोत्सर्गः कर्त्तव्यो विभाव्यते, परं तदैव क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्यः । विवेकविलासादौ त्वेवमुक्तं
सुस्वप्नं प्रेक्ष्य न स्वप्यं कथ्यमह्नि च सद्गुरोः । दुःस्वप्नं पुनरालोक्य कार्यः प्रोक्तविपर्ययः ॥ समधातोः प्रशान्तस्य धार्मिकस्यापि नीरुजः। . स्यातां पुंसो जिताक्षस्य स्वप्नौ सत्यौ शुभाशुभौ ॥