________________
प्रथमः प्रकाशः
जाएवि जो पढिज्जइ, जेणं जायस्स होइ फलरिद्धि । अवसाणेवि पढिज्जइ, जेण मओ सुग्गइं जाइ ॥ आवइहिंपि पढिज्जइ, जेण य लंघेइ आवइसयाइं । रिद्धीएवि पढिज्जइ, जेण य सा जाइ वित्थारं ॥ नवकाइक्कअक्खर, पावं फेडेइ सत्त अयराणं । पन्नासं च पएणं, पंचसयाइं समग्गेणं ॥ जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोअं, सो बंधइ नत्थि संदेहो ॥ अद्वैव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ।
जो गुणइ अट्ठलक्खे, सो तइअभवे लहइ सिद्धि ॥ नमस्कारमाहात्म्ये इहलोक्ने श्रेष्ठिपुत्रशिवादयो दृष्टान्ताः । तस्मात्सुप्तोत्थितेन पूर्वं नमस्कारः स्मर्त्तव्यः, ततो धर्मजागर्या कार्या । यथा
कोहं का मम जाई, किं च कुलदेवया च के गुरुणो । को मह धम्मो के वा, अभिग्गहा का अवत्था मे ॥ कि मे कडं किच मे किच्चसेसं, किं सक्कणिज्जं न समायरामि । किं मे परो पासइ किं च अप्पा, किं वाहं खलिअंन विवज्जयामि ॥
एवमद्य कां तिथि: ? किं वाऽर्हतां कल्याणकं ? किं वाऽद्य मम कृत्यमित्यादि । अत्र स्वकुलधर्मव्रतादेः स्मरणं भावतः, गुर्वादेस्तु द्रव्यतः, कुत्र देशे पुरे ग्रामे स्थाने वाऽस्मीति क्षेत्रतः, कः कालः प्रभातादिः सम्प्रतीति च कालतः, इदं च सर्वमादिशब्देन सङ्ग्रहीतम् । एवं स्मरणे हिं. जीवसावधानत्व-तत्तद्विरुद्धकर्मस्वदोषादिपरिहारस्वनियमनिर्वाह-नव्यगुणविशेषधर्मार्जनादयो गुणाः । श्रूयते ह्यानन्दकामदेवाद्यैरपि धर्मजागर्याप्रतिबुद्धैः प्रतिमादिविशेषधर्मकरणादि ।
अथोत्तरार्द्धव्याख्या-"पडिकमिअत्ति" ततः चेत् प्रतिक्रामकस्तदा प्रतिक्रम्य रात्रिप्रतिक्रमणं कृत्वा । तद्विधिरग्रे वक्ष्यते । यो न प्रति
★ द्वितीय प्रकाशे - पत्रम् १८३