________________
श्राद्धविधिकौमुदीसक्षेपः जामिणिपच्छिमजामे, सव्वे जग्गन्ति बालबढ़ाई।
परमिट्ठिपरममंतं भणंति सत्तट्ठवाराओ ॥ 'एवं च नमस्कारं स्मरन् सुप्तोत्थितः पल्यङ्कादि मुक्त्वा पवित्रभूमौ ऊर्ध्वं स्थितो निविष्टो वा पद्मासनादिसुखासनासीनः पूर्वस्यामुत्तरस्यां वा सम्मुखो जिनप्रतिमाद्यभिमुखो वा चित्तैकाग्रताद्यर्थं कमलबन्धकरजापादिना नमस्कारान् परावर्तयेत्, तत्राऽष्टदले कमले कर्णिकायामाद्यं पदं, द्वितीयादिपदानि चत्वारि पूर्वादिदिक्चतुष्के, शेषाणि चत्वार्याग्नेय्यादिविदिक्चतुष्के न्यसेदित्यादि । उक्तं चाष्टमप्रकाशे श्रीहेमसूरिभिः• अष्ट्रपत्रे सिताऽम्भोजे कर्णिकायां कृतस्थितिम्।
आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । . चूलापादचतुष्कं च विदिक्पत्रेषु चिन्तयेत् ॥ त्रिशुद्ध्या चिन्तयन्नस्य शतमष्टोत्तरं मुनिः ।
भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ करजापो नन्द्यावर्त्तशङ्खावर्त्तादिना इष्टसिद्ध्यादिबहुफलः । प्रोक्तं च
करआवत्ते जो पंचमंगलं साहपडिमसंखाए ।
नववारा आवत्तइ छलंति तं नो पिसायाई ॥ बन्धनादिकष्टे तु विपरीतशङ्खाव दिनाऽक्षरैः पदैर्वा विपरीतं नमस्कारं लक्षाद्यपि जपेत्, क्षिप्रं क्लेशनाशादि स्यात् । करजापाद्यशक्तस्तु सूत्र-रत्न-रुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेर्वनुल्लङ्घनादिविधिना जपेत् । यतः
अङ्गल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्गने । ' व्यग्रचित्तेन यज्जप्तं तत्प्रायोऽल्पफलं भवेत् ॥ सङ्कलाद्विजने भव्यः सशब्दान्मौनवान् शुभः। . मौनजान्मानसः श्रेष्ठो जापः श्लाघ्यः परः परः ॥
१. नमस्कारपरिवर्तनविधिरयम्-हदि नमस्कारं इति को० ह० प्र० पाठः ।