________________
प्रथमः प्रकाशः
जपश्रान्तो विशेद् ध्यानं ध्यानश्रान्तो विशेज्जपम् ।।
द्वयश्रान्तः पठेत् स्तोत्रमित्येवं गुरुभिः स्मृतम् ॥ श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तं-जापस्त्रिविधो मानसोपांशुभाष्यभेदात्, तत्र मानसो मनोमात्रवृत्तिनिर्वृत्तः स्वसंवेद्यः, उपांशुस्तु परैरश्रूयमाणोऽन्तःसञ्जल्परूपः, यस्तु परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्य:, मानसस्य प्रयत्नसाध्यत्वाद्, भाष्यस्याधमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः इति। नमस्कारस्य पञ्चपदी नवपदी वाऽनानुपूर्व्याऽपि चित्तैकाग्र्यार्थं गुणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावर्त्यम् । यदुक्तमष्टमप्रकाशे
गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा ।
जपन् शतद्वयं तस्याश्चतुर्थस्याऽऽप्नुयात् फलम् ॥ गुरुपञ्चकं=परमेष्ठिपञ्चकं, षोडशाक्षरा=अरिहंतसिद्धआयरियउवज्झायसाहुरूपा । तथा- . . .
शतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् ।
पञ्चवर्णं जपन् योगी चतुर्थफलमश्नुते ॥ षड्वर्णम्-अरिहंतसिद्ध इति । चतुरक्षरं अरिहंत इति । अवर्णं= अकारमेव मन्त्रम् ।
प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् ।
फलं स्वर्गापवर्गौ तु वदन्ति परमार्थतः ॥ तथा
नाभिपद्मे स्थितं ध्यायेदकारं विश्वतोमुखम् । सिवर्णं मस्तकाम्भोजे आकारं वदनाम्बुजे ॥ उकारं हृदयाम्भोजे साकारं कण्ठपञ्जरे ।
सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत् ॥ असिआउसा इति बीजान्यन्यान्यपि 'नमः सर्वसिद्धेभ्य' इति ।