________________
प्रथमः प्रकाशः
प्रश्ने प्रारंभणे वाऽपि कार्याणां वामनासिका । पूर्णा वायोः प्रवेशश्चेत्तदा सिद्धिरसंशयम् ॥ बद्धानां रोगितानां च प्रभ्रष्टानां निजात्पदात् । प्रश्ने युद्धविधौ वैरिसङ्गमे सहसा भये ॥ स्नाने पानेऽशने नष्टान्वेषे पुत्रार्थमैथुने ।
है
विवादे दारुणार्थे च सूर्यनाडिः प्रशस्यते ॥ युग्मम् ।
क्वचित्त्वेवम् -
११
विद्यारम्भे च दीक्षायां शस्त्राभ्यासविवादयोः । राजदर्शनगीतादौ मन्त्रयन्त्रादिसाधने ॥ सूर्यनाडी शुभा । दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरम् । तं पादमग्रतः कृत्वा निस्सरेत् निजमन्दिरात् ॥ अधमर्णारिचौराद्या विग्रहोत्पातिनोऽपि च । शून्याङ्गे स्वस्य कर्तव्याः सुखलाभजयार्थिभिः ॥ स्वजनस्वामिर्वाद्या ये चान्ये हितचिन्तकाः । जीवा ते ध्रुवं कार्याः कार्यसिद्धिमभीप्सुभिः ॥ प्रविशत्पवनापूर्णनासिकापक्षमाश्रितम् ।
पादं शय्योत्थितो दद्यात् प्रथमं पृथिवीतले ॥
एवं विधिना त्यक्तनिद्रः श्रावक आत्यन्तिकबहुमानः परममङ्गलार्थं नमस्कारं स्मरेद् अव्यक्तवर्णं, यदाह
परमिट्ठचितणं माणसम्मि सिज्जागरण कायव्वं । सुत्ताऽविणयपवित्ती निवारिआ होइ एवं तु ॥
अन्ये तु न सा काचिदवस्था यस्यां पञ्चनमस्कारस्याऽनधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः । एतन्मतद्वयमाद्यपञ्चाशकवृत्त्यादावुक्तम् । श्राद्धदिनकृत्ये त्वेवमुक्तं
सिज्जाठाणं पमुत्तूणं, चिट्ठिज्जा धरणीयले । भावबंधुं जगन्नाहं, नमोक्कारं तओ पढे ॥
यतिदिनचर्यायां चैवं