SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १० श्राद्धविधिकौमुदीसङ्क्षेपः शशाङ्केनोदये वायोः सूर्येणाऽस्तं शुभावहम् । उदये रविणा त्वस्य शशिनाऽस्तं शुभावहम् ॥ केषाञ्चिन्मते वारक्रमेण सूर्यचन्द्रोदयो, तत्र रविभौमगुरुशनिषु सूर्योदयः सोमबुधशुक्रेषु चन्द्रोदयः । केषाञ्चित् सङ्क्रान्तिक्रमाद्, यथा सविसे रविचंदा इत्यादि । केषाञ्चिच्चन्द्रराशिपरावर्त्तक्रमेण - सार्द्धं घटीद्वयं नाडिरेकैकाऽर्कोदयाद्वहेत् । अरघट्टघटी भ्रान्तिन्यायो नाड्यो पुनः पुनः ॥ षट्त्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेला मरुतो नाड्या नाड्यां सञ्चरतो लगेत् ॥ पञ्चतत्त्वानि चैवं - ऊर्ध्वं वह्निरधस्तोयं तिरचीनः समीरणः । भूमिर्मध्यपुटे व्योम सर्वगं वहते पुनः ॥ वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत् क्रमात् । वहन्त्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा ॥ पृथ्व्याः पलानि पञ्चाशच्चत्वारिंशत्तथाऽम्भसः । अग्नेस्त्रिंशत्पुनर्वायोर्विंशतिर्नभसो · दश ॥ तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्ते कार्ये फलोन्नतिः । दीप्ता स्थिरादिके कृत्ये तेजोवाय्वम्बरैः शुभम् ॥ जीवितव्ये जये लाभे सस्योत्पत्तौ च वर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ पृथ्व्यप्तत्त्वे शुभे स्यातां वह्निवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोर्व्यां तु शीघ्रमम्भसि निर्दिशेत् ॥ युग्मम् । पूजाद्रव्यार्जनोद्वाहे दुर्गादिसरिदाक्रमे । गमागमे जीविते च गृहे क्षेत्रादिसङ्ग्रहे ॥ क्रयविक्रयणे वृष्टौ सेवाकृषिद्विषज्जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी ॥ युग्मम्
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy