SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः , 'नासानिःश्वासं निरुणद्धि । ततोऽपनिद्रः सन् द्वारं दृष्ट्वा कायिक्यादिचिन्तां करोति । उक्तञ्च साधुमाश्रित्यौघनिर्युक्तौ-'दव्वाइउवओगं ऊसासनिरुंभणालोअं' इति रात्रौ च यदि किञ्चित् कार्याद्यन्यस्मै ज्ञापयति, तदा मन्दस्वरादिनैव, उच्चैःस्वरं तु शब्दकासितकारहुंकाराद्यपि न कुर्यात्, रात्रौ 'तत्करणजागरितैर्गृहगोधादिहिंस्रजीवैर्मक्षिकोपद्रवाद्यारम्भः, प्रातिवेश्मिकैर्वा. स्वस्वाऽऽरम्भः प्रवत्यैत । तथा च पानीयाहारिकारन्धनकारिका-वाणिज्यकारक-शोषकारक-पथिक-कर्षकाऽऽरामिकाऽरघट्टिकघरट्टादियन्त्रवाहक-शिलाकुट्टक चाक्रिक रजक कुम्भकारलोहकार-सूत्रधार-द्यूतकार-शस्त्रकार-मद्यकार-मात्स्यिक-सौनिकवागुरिक-लुब्धक-घातक-पारदारिक-तस्कराऽवस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति निरर्थकमनेके दोषाः । तदुक्तं श्री भगवत्यङ्गे- जागरिआ धम्मीणं, अहम्मीणं तु सुत्तया सेया। वच्छाहिवभइणीए, अकहिंसु जिणो जयंतीए ॥ निद्राच्छेदे च तज्ज्ञेन भूजलाग्निंघायुव्योमसु किं तत्त्वमित्याद्यन्वेष्यं यतः- . . : अम्भोभूतत्त्वयोनिद्राविच्छेदः शुभहेतवे । व्योमवाय्वग्नितत्त्वेषु स पुनर्दु:खदायकः ॥ वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । .त्रीणि त्रीणि दिनानीन्दुसूर्ययोरुदयः शुभः ॥ शुक्लप्रतिपदो वायुश्चन्द्रेऽथार्के व्यहं त्र्यहम् ।। वहन् शस्तोऽनया वृत्त्या विपर्यासे तु दुःखदः ॥ १. नासां इति को० ह० प्र० पाठः । २. तत्करणे इति मुद्रितम् । ३. शोक० इति मुद्रितम् ।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy