________________
श्राद्धविधिकौमुदीसङ्क्षेपः श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः ॥ . यद्वा-श्रद्धालुतां श्राति शृणोति शासनं दानं वपत्याशु वृणोति दर्शनम् । कृन्तत्यपुण्यानि करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ॥ .
तथा श्रद्धा सम्यग् धर्मेऽस्याऽस्तीति प्रज्ञाश्रद्धाऽर्चावृत्तेर्णः (सि० है० ७-२-३३) इति णप्रत्यये श्राद्ध इति श्राद्धशद्वान्वर्थोऽपि भावश्राद्धत्वापेक्ष एवेत्यत्रोक्तं भावश्राद्धनात्राधिकार इति चतुर्थगाथार्थः ॥४॥
एवं श्राद्धस्य स्वरूपमुक्त्वा प्रागुक्ते दिनरात्र्यादिकृत्यषट्के प्रथम दिनकृत्यविधिमाह -
नवकारेण विबुद्धो, सरे सो सकुलधम्मनियमाई। : पडिकमिअ सुई पूइअ, गिहे जिणं कुणइ संवरणं ॥५॥
'नमो अरिहंताणं' इत्यादिना विबुद्धः स श्राद्धः स्वकुलधर्मनियमादीन् स्मरेत् । अयमर्थ:-श्रावकेण तावत् स्वल्पनिद्रेण भाव्यं, पाश्चात्यरात्रौ च यामादिसमये सकाले उत्थातव्यं, तथा सति यथा विलोक्यमानैहिकलौकिकपारलौकिककार्यसिद्ध्यादयोऽनेकगुणाः, अन्यथा तत्सीदनादयो दोषाः । लोकेऽप्युक्तं -
कम्मीणां धण संपडइ, धम्मीणां परलोअ जिहिं।
सुत्ता रवि उग्गमइ, तिहिं नरआउ न ओय ॥ निद्रापारवश्यादिना यदि तथोत्थातुं न शक्नोति, तदा पञ्चदशमुहूर्ता रजनी तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्म मुहूर्ते उत्तिष्ठेत्, उत्थितश्च द्रव्याधुपयोगं करोति-द्रव्यतः कोऽहं श्राद्धोऽन्यो वा ? क्षेत्रत: किं स्वगृहेऽन्यत्र वा ? उपरितलेऽधस्तले वा ? कालतो रात्रिदिनं वा ? भावतः कायिक्यादिना पीडितोऽहं न वा ? एवमुपयोगे दत्ते निद्रानुपरमे