________________
___ श्राद्धविधिकौमुदीसक्षेपः तेरसकोडिसयाई, चुलसीइ जुयाइं बारस य लक्खा।
सत्तासीइ सहस्सा, दुन्निसया तह दुरग्गा य ॥ ननु त्रिविधं त्रिविधेनेति भेदोऽत्र कुत्रापि किं न योजितः ? उच्यते, गृहिणा स्वयं पुत्रादिभिर्वा प्राक्प्रारब्धारम्भादावनुमतेनिषेद्धमशक्यत्वात् । यत्पुनः प्रज्ञप्त्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणाम्, तद्विशेषविषयम् । तथाहि-यः खलु प्रविव्रजिषुरेव पुत्रादिसन्ततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते, यो वा विशेषं स्वयम्भूरमणादिगतमत्स्यमांसादि नृक्षेत्राबहि: स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषण प्रत्याख्याति, स एव त्रिविधं त्रिविधेनेति करोतीत्यल्पविषयत्वादत्र न विवक्षितम् । महाभाष्येऽप्युक्तं- .
केई भणंति गिहिणो, तिविहं तिविहिएण नत्थि संवरणं। तं न, जओ निद्दिटुं पन्नत्तीए विसेसेउं ॥ .. पुत्ताई संततिनिमित्तमित्तमेक्कारसिं पवण्णस्स । जंपति केइ गिहिणो दीक्खाभिमुहस्स तिविहंपि ॥ जइ किंचिदप्पओअणमप्पप्पं वा विसेसिअं वत्थु । पच्चक्खेज्ज न दोसो, सयंभुरमणादिमच्छव्व,॥
'अप्पओअणंत्ति'-अप्रयोजनं काकमांसादि, 'अप्पप्पं' अप्राप्यं नृक्षेत्राद् बहिर्दन्तिदन्तचित्रकचर्मादिकं विशिष्टम् । ननु आगमेऽन्यथा श्रावकभेदाः श्रूयन्ते । यदुक्तं श्रीस्थानाङ्गे-"चत्तारिं समणोवासगा पन्नत्ता, तंजहा-अम्मापियसमाणे भायसमाणे मित्तसमाणे सवत्तिसमाणे । अथवा चउव्विहा समणोवासगा पन्नत्ता, तंजा-अद्दायससमाणे पडागासमाणे चूत्तारि थाणुसमाणे खरंटयसमाणे ।" (स्था० ३२१) एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिन्नवतरन्ति ? । उच्यते, व्यहारनयमतेन भावश्रावका एवैते तथा व्यवहियमाणत्वात्, निश्चयनयमतेन पुनः सपत्नीख़रण्टसमानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको, शेषास्तु भावश्रावकाः । तदुक्तं -
१. विशेषे इति को० ह० प्र० पाठः ।