________________
प्रथमः प्रकाशः
चोल्लकादिदशदृष्टान्तैर्दुर्लभमपि गुर्वादियोगे लभते सम्यक्त्वं, निर्वहते प्राग्भवे शुकराज इवेति भाव इति तृतीयगाथार्थः ॥३॥
(अत्र भद्रकत्वादिगुणेषु शुकराजनृपकथा ।) अथ श्राद्धस्वरूपमाहनामाई चउभेओ, सवो भावेण इत्थ अहिगारो । तिविहो अ भावसढो, सणवयउत्तरगुणेहिं ॥४॥
नामस्थापनाद्रव्यभावैश्चतुर्भेदः श्राद्धः । तंत्र नामश्राद्धो 'गुणशून्यः श्राद्धनामधारी ईश्वरादिनामधारकदरिद्रदासादिवत् । स्थापनाश्राद्धो लेप्यमयादिः । द्रव्यश्राद्धो भावशून्य॑श्राद्धक्रियाकृद् अभयकुमारबन्धनार्थचण्डप्रद्योतननृपादिष्टकपटश्राविकीभूतगणिकावत् । भावश्राद्धो भावपूर्वकश्राद्धक्रियानिष्ठः । अत्र च भावश्राद्धेनाधिकारो, नामश्राद्धादीनां नामगवादीनामिवेष्टसाध्यासाधकत्वात् । भावश्राद्धश्च त्रिविधो, दर्शनश्राद्धो, व्रतश्राद्ध, उत्तरगुणश्राद्धश्च । तत्र दर्शनश्राद्धः केवलसम्यक्त्वधारी श्रेणिकादिवत् । व्रतश्राद्धः सम्यक्त्वमूलाणुव्रतधारी उत्तरगुणा:-त्रीणि गुणव्रतानि चल्वारि शिक्षाव्रतानि च, सम्यक्त्वाणुव्रतसहितान्येतानि धरन्नुत्तरगुणश्राद्धः सुदर्शनश्रेष्ठ्यादिवत् । अथवा सम्यक्त्वमूलद्वादशव्रतधारी व्रतश्राद्धः, उत्तरगुणश्राद्धस्तु पूर्वोक्तगुणयुक्तः सर्वसचित्तपरिहारैकाहार-त्रिविध-चतुर्विधाहारप्रत्याख्यान-ब्रह्मचर्य-भूमिशयनप्रतिमादिविशेषाभिग्रहवांन् आनन्द-कामदेव-कार्तिकश्रेष्ठ्यादिवत् । एकद्व्यादिवतभावेऽपि च व्रतश्राद्धत्वं स्यात्, तत्र च द्वादशव्रतानामेकद्विकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभङ्गयोजितैरुत्तरगुणाऽविरतरूपभेदद्वययुतैः श्राद्धभङ्गकसर्वाग्रमित्युक्तम् -
१. अन्वर्थशून्यः इति को० ह० प्र० पाठः ।