________________
श्राद्धविधिकौमुदीसङ्क्षेपः
प्रकृतिसोमः स्वभावतोऽपापकर्मा सुखसेव्यश्च । (४) लोकप्रियो दानविनयशीलवत्तया । (५) अकूरोऽक्लिष्टचित्तः । (६) भीरुः पापाऽयशोभ्यां बिभेति । (७) अशठः परावञ्चकः । (८) सदाक्षिण्यः प्रार्थनाभङ्गभीरुः । (९) लज्जालुरकार्यवर्जकः । (१०) दयालुः सत्त्वानुकम्पकः । (११) मध्यस्थो रागद्वेषरहितः, अत एव सोमदृष्टिः, स च यथावस्थितधर्मविचार`वित्त्वाद् दूरं दोषत्यागी । (१२) गुणरागी गुणिपक्षपाती निर्गुणोंपेक्षकश्च । (१३) सत्कथः सती धर्म्या कथाऽभीष्टा यस्य स तथा । (१४) सुपक्षयुक्तः सुपक्षेण सुशीलानुकूलेन परिवारेण युक्तः । (१५) सुदीर्घदर्शी सर्वत्राऽऽयतिदर्शित्वाद्बहुलाभाल्पक्लेशकार्यकर्त्ता । (१६) विशेषज्ञोऽपक्षपातित्वेन गुणदोषविशेषज्ञः । (१७) वृद्धानुगो वृत्तस्थज्ञानवयोवृद्धसेवकः । (१८) विनीतो गुणाधिके गौरवकृत् । (१९) कृतज्ञः परोपकाराऽविस्मारकः । (२०) परहितार्थकारी निरीहः सन् परार्थकृत् । (२१) लब्धलक्षो धर्मकृत्येषु सुशिक्षित इति । एते चैकविंशतिरपि भद्रकत्वादिचतुर्गुणसद्भावे प्रायः प्राप्यन्ते । तत्र भद्रकत्वेऽक्षुद्रत्व-प्रकृतिसौम्यत्वाक्रूरत्व-सदक्षिणत्व-दयालुत्व - मध्यस्थत्व - सोमदृष्टित्व- वृद्धानुगत्वविनीतत्वानि, विशेषनिपुणमतित्वे स्पष्टपञ्चेन्द्रियत्व-रूपवत्त्व- सुदीर्घदर्शित्व-विशेषज्ञत्व-कृतज्ञत्व - परहितार्थकृत्त्व - लब्धलक्षत्वानि, नयमार्गरतित्वे भीरुत्वाशठत्व - लज्जालुत्व - गुणरागित्व - सत्कथत्वानि, दृढनिजवचनस्थितित्वे लोकप्रियत्व - सुपक्षयुक्तत्वे च प्रायो दृश्यन्ते इत्यत्र तच्चतुष्कमेवोक्तम् । एषु चतुर्ष्वद्यगुणत्रयं विना कदाग्रह-ग्रस्तत्वान्मूढत्वाद्दुर्नयाऽऽसक्तत्वात् श्राद्धधर्मप्रतिपत्तिरेव न स्यात् । दृढप्रतिज्ञ - त्वाभावे तु प्रतिपन्नोऽपि श्राद्धधर्मो धूर्तमैत्र्यमिव ग्रहिलगृहीतसुवेष इव कपिकण्ठन्यस्तहार इव स्वल्पनिर्वाह एवेति । एवंविधगुण एव गृही सुभित्तिरिव चित्रन्यासम्, सुदृढपीठबन्ध इव प्रासादम्, सुघटितकाञ्चनमिव माणिक्यं श्राद्धत्वमर्हति श्राद्धधर्माधिकारी स्यात् सम्यग्दर्शनादिकं
४