________________
प्रथमः प्रकाशः
उक्तञ्च
रत्तो दुट्टो मूढो पुव्वं वुग्गाहिओ अ चत्तारि । एए धम्माणरिहा अरिहो पुण होइ मज्झत्थो ॥
m
(१) रक्तो = दृष्टिरागी, यथा भुवनभानुकेवलिजीवः प्राग्भवे भूपभूर्विश्वसेनस्त्रिदण्डिभक्तोऽतिकृच्छ्रेण सद्गुरुभिर्बोधितः स्वीकृतदर्शने दृढीकृतोऽपि प्राक्परिचितत्रिदण्डिगिरा दृष्टिरागोल्लासाद्वान्तदर्शनो भ्रान्तोऽनन्तभवम् ।
(२) द्विष्टो = भद्रबाहुबन्धुवराहमिहिरादिवत् । (३) मूढो=वचनभावार्थानमिज्ञः ।
भि (४) पूर्वं व्युद्ग्राहितो = गोशालकादिव्युद्ग्राहितनियतिवाद्यादिवत् । एते धर्मस्थानर्हाः । अर्हस्तु मध्यस्थोऽरक्तद्विष्ट धर्मे आर्द्रकुमारादिवदित्युक्तं भद्रकप्रकृतिः । तथा विशेषेण विशेषे वा हेयोपादेयाद्यन्तररूपे; निपुणा न तु मूढा मतिर्यस्य, एतावताऽनन्तरोक्तदृष्टान्तस्य मूढस्यार्हत्वं निरस्तं । तथा न्यायमार्गे वक्ष्यमाणव्यवहारशुद्ध्यादौ न त्वन्यायमार्गे रतिर्यस्य । तथा दृढा न तु शिथिला निजवचने स्थितिर्यस्य दृढप्रतिज्ञ: इत्यर्थः । एभिश्चतुर्भिर्गुणैरागमोक्ता एकविंशतिरपि श्राद्धगुणा आक्षिप्ताः । ते चैते-:
1
धम्मरयणस्स जुग्गो अक्खुद्दो रूववं पगइसोमो । लोगपिओ. अक्कूरो भीरू असढो सदक्खिण्णो ॥ लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसुपक्खजुत्तो सुदीहदंसी विसेसन्नू ॥
वुड्डाणुगो विणीओ कयण्णुओ परहिअत्थकारी अ । तह चेव लद्धलक्खो इगवीसगुणेहिं संजुत्तो ॥
(१) अक्षुद्रोऽतुच्छहृदयः । (२) रूपवान् स्पष्टपञ्चेन्द्रियः । (३)
१. संपन्नो इति मुद्रितम् ।