________________
श्राद्धविधिकौमुदीसक्षेपः कृत्वा हाटककोटिभिर्जगदसद्दारिद्यमुद्राकषं हत्वा गर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तप
स्त्रेधा वीरयशो दधद्विजयतां श्रीवीरतीर्थेश्वरः ॥ एवं च श्रीवीरजिनमित्येतावतैवापायापगमज्ञानपूजावचनातिशयाश्चत्वारोऽप्यसूच्यन्त । प्रणम्य=प्रकर्षेण भावपूर्वकं मनोवाक्कायैर्नत्वा, श्रुतात् सिद्धान्तात्पुनरावृत्तिव्याख्यानेन श्रुताद्=गुरूसम्प्रदायादेराकर्णिताच्च, श्राद्धस्य= श्रावकस्य वक्ष्यमाणान्वर्थस्य विधि सामाचारी, केनोपदिष्टां ? राजगृहे नगरे समवसृतेन जगद्गुरुणा अर्थाद्वीरजिनेनाअभयकुमारपृष्टेन यथा =येन प्रकारेण भणितमुपदिष्टं तथाभूतं किमपि सङ्क्षपेण साहेमिकथयामीति योग इति प्रथमगाथार्थः ॥१६॥
श्राद्धविधौ द्वाराण्याह - दिणरत्ति-पव्व-चउमासग-वच्छर-जम्मं किच्चदाराई । सढाणणुग्गहट्ठा सढविहिए भणिज्जंति ॥२॥
दिनरात्रिपर्वचतुर्मासंवत्सरजन्मनां कृत्यानि कार्याणि तान्येव द्वाराणि । अयमर्थः-दिनकृत्य-रात्रिकृत्य-पर्वकृत्य-चातुर्मासकृत्यवत्सरकृत्य-जन्मकृत्यरूपाणि षट् द्वाराणि श्राद्धानामनुग्रहार्थं श्राद्धविधौ भण्यन्ते विवियन्ते इति द्वितीयगाथार्थः ॥२॥ ..
एवं मङ्गलपूर्वकमभिधेयमभिधाय योग्यस्यैव विद्या राज्यं धर्मश्च देयानीति आदौ श्राद्धधर्मस्य योग्यमाह
सद्वृत्तणस्स जुग्गो भद्दगपगई विसेसनिउणमई । नयमग्गई तह दढनिअवयणठिई विणिहिट्ठो ॥३॥
ईदृग्गुणः श्राद्धत्वस्य योग्यो विनिर्दिष्टः सर्वज्ञैरिति शेषः । तत्र भद्रकप्रकृतिः= माध्यस्थ्यादिगुणोपेतो, न तु कदाग्रहग्रस्तहृदयादिः ।