SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः दिनकृत्यम् अर्हत्सिद्धगणीन्द्रवाचकमुनिप्रष्ठाः प्रतिष्ठास्पदं, पञ्चश्रीपरमेष्ठिनः प्रददतां प्रोच्चैर्गरिष्ठात्मताम् । द्वैधान्पञ्च सुपर्वणां शिखरिणः प्रोद्दाममाहात्म्यतश्वेतश्चिन्तितदानतश्च कृतिनां ये स्मारयन्त्यन्वहम् ॥१॥ श्रीवीरं सगणधरं प्रणिपत्य श्रुतगिरं च सुगुरूंश्च । विवृणोमि स्वोपज्ञश्राद्धविधिप्रकरणं किञ्चित् ॥२॥ युगवरतपागणाधिपपूज्यश्रीसोमसुन्दरगुरूणाम् । वचनादधिगततत्त्वः सत्त्वहितार्थं प्रवर्तेऽहम् ॥३॥ तस्य चेयमाद्यगाथासिरिवीरजिणं पणमिअ सुआओ साहेमि किमवि सढविहीं । रायगिहे जगगुरुणा जह भणियं अभयपुढेणं ॥१॥ श्रिया केवलालोकोशोकादिप्रातिहार्यपञ्चत्रिंशद्वचनगुणाद्यतिशायिलक्ष्म्या युक्ते. वीरजिनं चरमतीर्थङ्करं कर्मविदारणाद्यन्वर्थाच्च वीरः । उक्तञ्च- विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥[ .] रागाद्यरिजेतृत्वाच्च जिनः । वीरत्वं च दानयुद्धधर्मवीरभेदात् त्रिधा, यदाहुः
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy