________________
..
मामलम् । द्वार १७
२३८
श्राद्धविधिकौमुदीसझेपः षण्मासान् ब्रह्मचारी भवतीति षष्ठी । सप्तमासान् सचित्ताहारान् परिहरतीति सप्तमी । अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी। नव मासान् प्रेष्यैरप्यारम्भं न कारयतीति नवमी । दश मासान् क्षुरमुण्डी शिखाधारी वा निधानीकृतार्थजातस्य स्वजनैः प्रश्ने परिज्ञाने दर्शयन्नन्यथा न ज़ानामीति ब्रुवाणः शेषं गृहकृत्यं सर्वं वर्जयन्नात्मार्थं निष्पन्नमाहारमपि न भुङ्क्ते इति दशमी । एकादशमासांस्त्यक्तगृहादिसङ्गः कृतलोचः क्षुरमुण्डो वा रजोहरणपतद्ग्रहादिमुनिवेशधारी स्वायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षा दत्तेति. वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत्समाचरतीत्येकादशी । इति श्राद्धप्रतिमास्वरूपम् । द्वारं १७।
तथा अन्ते आयुषः प्रान्ते आराधना वक्ष्यमाणस्वरूपा संलेखनादिविधिना कार्या । अयमर्थः
सोऽथाऽऽवश्यकयोगानां, भने मृत्योरथागमे । । __कृत्वा संलेखनामादौ, प्रतिपद्य च संयमम् ॥
इत्युक्तः श्रावकोऽवश्यकर्त्तव्यानां पूजाप्रतिक्रमणादीनां कर्तुमशक्ती मृत्योरासत्तौ वा द्रव्यभावाभ्यां द्विविधां संलेखनां करोति । तत्र द्रव्यसंलेखना क्रमेणाऽऽहारत्यागः, भावसंलेखना तु क्रोधादिकषायत्यागः । यत:
देहमि अ संलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरमकालम्मि ॥ न ते एयं पसंसामि, किसं साहुसरीरयं ।
कीसते अंगुलीभग्गा, भावसंलिहमाचर ॥ मृत्योरासत्तिश्च स्वप्नोपश्रुतिदेवतादेशादिना निर्धार्या । आह हि
दुःस्वप्नैः प्रकृतित्यागैर्दुनिमित्तैश्च दुर्ग्रहैः । हंसचारान्यथात्वैश्च ज्ञेयो मृत्युः समीपगः ॥