________________
षष्ठः प्रकाशः
२३७
जातु किञ्चिदालम्बनेन तादृक् शक्त्यभावादिना वा दीक्षामादातुं न शक्नोति, तदा आरम्भवर्जनादि कुर्यादित्याह- अथवा आरम्भस्य त्यागः परिहारः कार्यः । तत्र पुत्रादेश्चिन्ताकर्तुः सद्भावे सर्वं तदभावे तु यथानिर्वाहं सर्वसचित्ताहारादिकं कियन्तमारम्भं वर्जयेत्, सम्भवे स्वार्थमन्नपाकाद्यपि । यतः- जस्स कए आहारो, तस्सट्ठा चेव होइ आरंभो ।
आरंभे पाणिवहो, पाणिवहे दुग्गई चेव ॥ द्वारं १५। तथा ब्रह्म शीलं यावज्जीवं स्वीकार्यम् । यथा साधुपेथडेन द्वात्रिंशे वर्षे ब्रह्मोदचारि सौवणिकभीममड्यागमने । ब्रह्मफलमर्थदीपिकायामुक्तम् । द्वारम् १६ . - तथा प्रतिमादिस्तपोविशेषः कार्यः । आदिशब्दात् संसारतारणादिदुस्तपतपोविशेषग्रहः । तत्र प्रतिमा मासिकाद्याः । ताश्चैवमूचुः
दसण वय सामाइअ पोसह पडिमा अबंभ सच्चित्ते । . आरंभ पेस उद्दिट्ठवज्जए समणभूए अ॥ .. तत्र राजाभियोगादिषडाकाररहितं, चतुःश्रद्धानादिगुणोपेतं, सम्यग्दर्शनं, भयलोभलज्जादिभिरप्यनतिचरंस्त्रिकालदेवपूजादिपरो मासमात्रं सम्यक्त्वमनुपालयति इत्येषा प्रथमा प्रतिमा । द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितान्यणुव्रतानि पालयतीति द्वितीया । त्रीन् मासान् उभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । चतुरो मासांश्चतुष्पा पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं परिपूर्णं पौषधं पालयतीति चतुर्थी । पञ्चमासांस्त्यक्तस्नानो रात्रौ चतुर्विधाहारवर्जी दिवा ब्रह्मचार्येवाऽबद्धपरिधानकच्छश्चतुष्पर्ध्या गृहे तद्द्वारे चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गं पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्ते इति पञ्चमी । एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वप्रतिमानुष्ठाननिष्ठाऽवसेया । नवरं,