________________
२३६
श्राद्धविधिकौमुदीसङ्क्षेपः
देहठिईनिबंधणधणसयणाहारगेहमाईसु । निवसइ अरत्तदुट्ठो, संसारगएसु भावे ॥ उवसमसारविआरो, वाहिज्जइ नेव रागदोसेहिं । मज्झत्थो हिअकामी, असग्गहं सव्वहा चयइ ॥ भावंतो अणवरयं, खणभंगुरयं समत्थवत्थूणं । संबद्धोवि धणाइस वज्जइ पडिबंधसंबंधं ॥ संसारविरत्तमणो, भोगुवभोगा न तित्तिहेउ त्ति । नाउं पराणुरोहा, पवत्तए कामभोगेसु ॥
वेसव्व निरासंसो, अज्जं कल्लं च यामि चिंतंतो । परकीअं पिव पालइ, गेहावासं सिढिलभावो ॥
इय सतरसगुणजुत्तो, जिणागमे भावसावगो भणिओ । एस पुण कुसलजोगा, लहइ लहुं भावसाहुत्तं ॥
इति धर्मरत्नशास्त्रे । एवं शुभभावनाभावितः, प्रागुक्तदिनादिकृत्यरतः, 'इणमेव निग्गंथे पावयणे अट्ठे परमठ्ठे सेसे अणट्टे त्ति' सिद्धान्तोक्तरीत्या वर्त्तमानः, सर्वव्यापारेषु सर्वप्रयत्नेन यतनयैव प्रवर्त्तमानः, सर्वत्राऽप्यप्रतिबद्धचित्तः, क्रमान्मोहजयनिष्ठः पुत्रभ्रातृव्यादीनां गृहभारक्षमत्वावधि अन्यथापि वा कियन्तं समयमतिवाह्योचितसमये आत्मानं तोलयित्वाऽर्हच्चैत्येष्वष्टाह्निकामहं चतुर्विधसङ्घपूजां; दीनाऽनाथादीनां यथाशक्तिदानं सुहृत्स्वजनपरिचितजनक्षमणादि च विरचय्य विधिना सर्वविरतिं प्रतिपद्यते, सुदर्शन श्रेष्ठ्यादिवत् । यतः
;
सव्वरयणामएहिं, विभूसिअं जिणहरेहिं महिवलयं । जो कारिज्ज समग्गं, तओ वि चरणं महिड्डीअं ॥ नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं, राजादौन प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाप्तिर्लोकपूजा प्रशमसुखरतिः प्रेत्य मोक्षाद्यवाप्तिः श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यनं कुरुध्वम् ॥ द्वारं- १४॥