________________
षष्ठः प्रकाशः.
२३९ एवं संलेखनां कृत्वा सकलश्रावकधर्मस्योद्यापनार्थमिवान्तेऽपि संयमं प्रतिपद्यते । यत:
एगदिवसंपि जीवो, पव्वज्जमुवागओ अणन्नमणो । - जइवि न पावइ मुक्खं, अवस्स वेमाणिओ होइ ॥
नलनृपभ्रातृकूबेरपुत्रो नवोढः पञ्चदिनायुर्ज्ञान्युक्तं श्रुत्वा प्रव्रजितः सिद्धः । हरिवाहननृपो नवप्रहरायुर्ज्ञान्युक्त्या प्रव्रज्य सर्वार्थसिद्धिं गतः । संस्तारकदीक्षावसरे च प्रभावनाद्यर्थं यथाशक्ति धर्मव्ययः कार्यः । यथा तदवसरे सप्तक्षेत्र्यां सप्तकोटिद्रव्यव्ययं थिरापद्रीयः सङ्घपति-आभूश्चक्रे । यस्य तु न संयमयोगः स संलेखनां कृत्वा शत्रुञ्जयतीर्थादिसुस्थाने निर्दोषस्थण्डिले विधिना चतुर्विधाहारप्रत्याख्यानरूपमनशनमानन्दादिवत्प्रतिपद्यते । यतः.. तवनिअमेण य मुक्खो, दाणेण य हुंति उत्तमा भोगा।
देवच्चणेण रज्जं, अणसणमरणेण इंदत्तं ॥ लोकेऽपि- समाः सहस्राणि च सप्त वै जले, दशैव चाग्नौ पवने च षोडश ।
महाहवे षष्टिरशीतिगोग्रहे, अनाशने भारत ! चाक्षयां गतिः ॥ । ततः सर्वातिचारपरिहारचतुःशरणादिरूपामाराधनां कुर्यात् । दश'द्वारात्मिका त्वाराधनैवं प्रोक्ता
आलोअसु अइआरे, वयाइं उच्चरसु खमसु जीवेसु । वोसिरंसु भाविअप्पा, अट्ठारस पावठाणाई ॥ चउसरणं दुक्कडगरिहणं च सुकडाणुमोअणं कुणसु ।
सुहभावणं अणसणं, पंचनमुक्कारसरणं च ॥ एवमाराधनया यदि तद्भवे न सिध्यति तदापि सुदेवसुमनुष्यभवाष्टकान्तः सिद्धयत्येव, 'सत्तट्ठभवग्गहणाई नाइक्कमेइ' इत्यागमात् । द्वारं १८। इति षोडशगाथार्थः ॥