________________
२३४
श्राद्धविधिकौमुदीसक्षेपः आजम्मं सम्मत्तं, जहसत्ति वयाइं दिक्खगह अहवा । आरंभचाउ बंभं पडिमाई अंतिआरहणा ॥१६॥
आजन्म बाल्यात्प्रभृति यावज्जीवं सम्यक्त्वं सम्यग्दर्शनं यथाशक्ति व्रतानि चाणुव्रतादीनि पाल्यानि । एतत्स्वरूपाद्यर्थदीपिकायामुक्तत्वादत्र नोच्यते । द्वारद्वयं १२-१३।
.. तथा दीक्षाग्रहोऽवसरे प्रव्रज्यास्वीकारः कार्यः । अयमर्थ:-श्राद्धो हि बाल्ये दीक्षाग्रहणासम्भवेन स्वं वञ्चितमिव नित्यं मन्यते । यतः--
धन्ना हु बालमुणिणो कुमारवासम्मि जे उ पव्वइआ। :
निज्जिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥ स्वदैववशजातं गृहस्थभावं चाहनिशं सर्वविरतिप्रतिपत्त्येकाग्रचित्ततयाऽम्बुघटद्वयवाहिवनितासत्यादिन्यायेन पालयति । आह हि
कुर्वन्ननेककर्माणि कर्मदोषैर्न लिप्यते । तल्लयेन स्थितो योगी, यथा स्त्री नीरवाहिनी ॥ परपुंसि रता नारी, भर्तारमनुवर्त्तते । . .. तथा तत्त्वरतो योगी, संसारमनुवर्तते ॥ . , .. जह नाम सुद्धवेसा, सुअंगपरिकम्मणं निसंसा । अज्जं कल्लं व चएमि, एअंमि अ भावओ कुणइ ॥ . जह वा पउत्थवईआ कुलबहुआ निवसिणेहरंगगया। . देहटिइमाईअं, सरमाणा पइगुणे कुणइ ॥ .. एमेव सव्वविरइं, मणे कुणंतो सुसावओ निच्चं । पालेज्ज गिहत्थत्तं, अप्पमहन्नं व मन्नंतो ॥ ते धन्ना सप्पुरिसा, पवित्तिअं तेहिं धरणिवलयमिणं ।
निम्महिअमोहपसरा, जिणदिक्खं जे पवज्जंति ॥ भावश्रावकस्य लक्षणान्यप्येवमाहुः
इथिदिअऽत्थसंसारविसयआरंभगेह दंसणओ। गड्डरिआइपवाहे पुरस्सरं आगमपवित्ती ॥