________________
षष्ठः प्रकाशः
२३३
ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । . शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ पठति पाठयते पठताममुं, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः ॥ जिनागमस्य च केवलज्ञानादप्यतिशायिता दृश्यते । यदाहु:
ओहो सुओवउत्तो, सुअनाणी जड़ हु गिण्हड़ असुद्धं । तं केवली वि भुंजइ, अपमाणसुअं भवे इहरा ॥
श्रुतं हि दुष्षमाकालवशाद् द्वादशवर्षी दुर्भिक्षादिभिरुच्छिन्नप्रायं मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततः श्रुतबहुमानिना तत्पुस्तकेषु लेखनीयं दुकूलादिभिरभ्यर्चनीयं च । श्रूयते च साधुपेथडेन सप्त मन्त्रिवस्तुपालेन चाष्टादशकोटिद्रव्यैस्त्रयो ज्ञानकोशा लेखिताः । थिरापद्रीयसङ्घपतिआभूनाम्ना तु त्रिकोटिटङ्ककैः सर्वागमप्रतिरेका सौवर्णाक्षरैर्द्वितीया सर्वग्रन्थप्रतिश्च मष्यक्षरैः । द्वारं १० |
तथा पौषधशालायाः श्राद्धादीनां पौषधग्रहणार्थं साधारणस्थानस्य प्रागुक्त गृहविधिना कारणं विधापनं विधेयम् । सा च साधर्मिकार्थं कारिता प्रगुणिता च निरवद्यार्हस्थानत्वेन यथावसरं साधूनामप्युपाश्रयत्वेन प्रदेयेति तस्याः महाफलत्वम् । यतः—
जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । ते दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥
श्रीवस्तुपालेन नवशती चतुरशीत्यधिका पौषधशालाः कारिताः । सिद्धराजजयसिंहप्रधानमन्त्रि 'सांतू' नाम्ना नव्यभव्यस्वावासं वादिदेवसूरीणां दर्शयित्वोक्तं, कीदृगयं ? शिष्यमाणिक्येनोक्तं, पौषधशाला स्यात्तदा वर्ण्यते, मन्त्रिणोक्तं, 'एष सैव भवतु' तस्यां बाह्यपट्टशालायां द्वयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन्, श्राद्धानां धर्मध्यानादनु वक्त्रवीक्षार्थम् । द्वारं ११ । इति पञ्चदशगाथार्थः ।।