________________
२३२
श्राद्धविधिकौमुदीसक्षेपः अष्टौ दिवसान् यावत्, पूजाऽविच्छेदतोऽस्य कर्त्तव्या ।
दानं च यथाविभवं, दातव्यं सर्वसत्त्वेभ्यः ॥ (८.१६) द्वारम् ७/ तथैव प्रौढोत्सवैः सुतादीनां पुत्रादीनाम् आदिशब्दात् पुत्रीभ्रातृभ्रातृव्यस्वजनसुहृत्परिजनादीनां प्रव्राजना च दीक्षादापनमुपलक्षणत्वादुपस्थापनाकारणं च विधेयम् । यतः
पंच य पुत्तसयाई, भरहस्स य सत्त नत्तुअ सयाइं। .
सयराहं पव्वइया, तम्मि कुमारा समोसरणे ॥ कृष्णचेटकनृपयोस्तु स्वापत्यविवाहनेऽपि नियमवतोः स्वपुत्र्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रव्राजना प्रतीता। इयं च महाफला । यतः
ते धन्ना कयपुन्ना, जणओ जणणी अ सयणवम्गो अ ।
जेसिं कुलम्मि जायइ, चारित्तधरो महापुत्तो ॥ . लोकेऽपि
तावद् भ्रमन्ति संसारे, पितरः पिण्डकाक्षिणः। .
यावत्कुले विशुद्धात्मा, यतिः पुत्रो न जायते ॥ द्वारम् ८| तथा पदस्थापना गणिवाचनाऽऽचार्यवाचकाऽऽचार्यादिपदप्रतिष्ठापनं दीक्षितस्वपुत्रादीनामन्येषां वा पदार्हाणां शासनौन्नत्यादिनिमित्तप्रौढोत्सवैविधाप्या । श्रूयते हि-प्रथमेऽर्हतः समवसरणे शक्रेण गणधरपदस्थापनाकारणं मन्त्रिवस्तुपालेनाप्येकविंशतिसूरीणां पदस्थापना कारिता। द्वारम् ९। ___ तथा पुस्तकानां श्रीकल्पाद्यागमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्टपत्रविशिष्टविशुद्धाक्षरादियुक्त्या लेखनं तथा वाचनं, संविग्नगीतार्थेभ्यः प्रोढप्रारम्भाद्युत्सवैः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनं अनेकभव्यप्रतिबोधहेतुविधेयम् । उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टम्भप्रदानं च । यतः