SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रकाशः द्वारम् ।६। तथा प्रतिमानां प्रतिष्ठा शीघ्रं विधाप्या । यदुक्तं षोडशके निष्पन्नस्यैवं खलु, जिनबिम्बस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन ॥ व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृद्यदा किल, तस्य तदाद्येति समयविदः ॥ ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु, चरमेह महाप्रतिष्ठेति ॥ (८-१-३) बृहद्भाष्येऽपि— २३१ वत्तिपट्ठा एगा, ख़त्तपट्ठा महापट्ठाय । एगचडवीससत्तरससयाण सा होइ अणुकमसो ॥ , प्रतिष्ठाविधिश्च सर्वाङ्गीणतदुपकरणमीलन- नानास्थान श्रीसङ्घगुर्वाकारण-प्रौढप्रवेशमहाद्रितत्स्वागतकरण-भोजनवसनप्रदानादिसर्वाङ्गीणसत्कारण-बन्दिमोक्षकारण - मारिनिवारणाऽवारितसत्रवितरण-सूत्रधारसत्कारण- स्फीतसङ्गीताद्यभिनवोद्धृतोत्सवाऽवतारणादिरष्टादशस्नात्रकरणादिश्च प्रतिष्ठाकल्पादेर्ज्ञेयः । प्रतिष्ठायां स्नात्रैर्जन्मावस्थां, फलनैवेद्यपुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युत्तरोत्तरावस्थां छाद्मस्थ्यसूचकाच्छादनाऽऽच्छादितकायत्वाद्यधिवासनया शुद्धचारित्रावस्थां नेत्रोन्मीलनेन केवलोत्पत्त्यवस्थां सर्वाङ्गीणपूजोपचारैश्च समवसृत्यवस्थां चिन्तयेदिति श्राद्धसमाचारीवृत्तौ । प्रतिष्ठानन्तरं च द्वादशमासान् विशिष्य च प्रतिष्ठादिने स्नात्रादि कृत्वा सम्पूर्णे वर्षेऽष्टाह्निकादिविशेषपूजापूर्वमायुर्ग्रन्थिर्बन्धनीयः, उत्तरोत्तरविशेषपूजा च कार्या । तद्दिने च साधर्मिकवात्सल्यसङ्घार्चादि यथाशक्ति विधेयम् । प्रतिष्ठाषोडशके त्वेवमुक्तम् ,
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy