________________
२२०
श्राद्धविधिकौमुदीसक्षेपः दुःखं देवकुलासन्ने, गृहे हानिश्चतुष्पथे। धूर्तामात्यगृहाभ्यासे, स्यातां सुतधनक्षयौ ॥ मूर्खाऽधार्मिकपाखण्डिपतितस्तेनरोगिणाम् । क्रोधनान्त्यजदृप्तानां, गुरुतल्पगवैरिणाम् ॥ स्वामिवञ्चकलुब्धानामृषिस्त्रीबालघातिनाम् ।
इच्छन्नात्महितं धीमान् प्रातिवेश्मिकतां त्यजेत् ॥ . कुशीलादिप्रातिवेश्मिकत्वे हि तदालापश्रवणतच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । सुप्रातिवेश्मिकत्वे प्रातिवेश्मि-. कीसंपादितपरमान्नः सङ्गमः शालिभद्रजीवः, दुष्प्रातिवेश्मिकत्वे पर्वदिने प्राङ्मुनये दत्ताग्रपिण्डा प्रतिवेश्मिकी व्युद्ग्राहितश्वस्त्रादिः सोमभट्टभार्या ज्ञातम् । अतिप्रकटे हि स्थाने गृहमसन्निहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः । अंतिगुप्ते च सर्वतो गृहान्तरैनिरुद्धत्वान्न स्वशोभां लभते । प्रदीपनकाद्युपद्रवे च दुःखनिर्गमप्रवेशं गृहं भवति । सुस्थानं पुनः शल्यभस्मक्षात्रादिदोषैनिषिद्धाऽऽयाऽऽदिना च रहितं बहलदूर्वाप्रवालकुशस्त'म्बप्रशस्तवर्णगन्धमृत्तिकासुस्वादुजलोद्गमनिधानादिमच्च । यदुक्तम्
शीतस्पर्णोष्णकाले याऽत्युष्णस्पर्शा हिमागमे । वर्षासु चोभयस्पर्शा सा शुभा सर्वदेहिनाम् ॥ हस्तमात्रं खनित्वाऽऽदौ पूरितात्तेन पांसुना। श्रेष्ठा समधिके पांसौ हीने हीना समे समा ॥ पदगतिशतं यावच्चाम्भःपूर्णा न शुष्यति । सोत्तमैकाङ्गुलहीना मध्यमा तत्पराऽधमा ॥ अथवा तत्र पुष्पेषु खाते सत्युषितेषु तु । समार्द्धसमशुष्केषु भुवस्त्रैविध्यमादिशेत् ॥
१. स्तव इति को० ह० प्र० पाठः ।