________________
षष्ठः प्रकाशः
२१९ धर्मवतां च संङ्गत्या धनित्वं विवेकविनयविचाराचारौदार्यगाम्भीर्यधैर्यप्रतिष्ठादयो गुणाः सर्वाङ्गीणधर्मकृत्यकौशलं च प्रायः सुप्रापाणि संप्रत्यपि प्रतीयन्ते । अतः प्रान्तग्रामादौ धनार्जनादिना सुखनिर्वाहेऽपि न वसनीयम् । उक्तं च
जत्थ न दीसंति जिणा, न य भवणं नेव संघमुहकमलं । न य सुच्चइ जिणवयणं, किं ताए अत्थभूईए ॥ यदि वाञ्छसि मूर्खत्वं, ग्रामे वस दिनत्रयम् ।
अपूर्वस्यागमो नास्ति, पूर्वाधीतं च नश्यति ॥ अत्र कुग्रामावासे दृष्टान्तः । उचितमपि च वासस्थानं स्वचक्रपरचक्रविरोधदुर्भिक्षमारीतिप्रजाविरोधवास्तुक्षयादिनाऽस्वस्थीभूतं द्रुतमेव त्याज्यम्, अन्यथा त्रिवर्गहान्याद्यापत्तेः । यथा मुद्गलैर्भङ्गे भयोत्पत्तौ यैढिल्ली त्यक्ता, ते. गुर्जरत्रादावागतास्त्रिवर्गपुष्ट्या भवद्वयं साफल्यमकार्युः। यैस्तु न त्यक्ता ते बन्दपतनादिना भवद्वयमप्यहाणुः । वास्तुक्षीणत्वाक्निा स्थानत्यागे तु क्षितिप्रतिष्ठित-वनकपुर-ऋषभपुरादिदृष्टान्तः । तथा चार्षम्
. खिइवणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं । इति ।।
वासस्थानं च गृहमप्युच्यते । तच्च सुप्रातिवेश्मिके ऽनतिप्रकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्नमितद्वारत्वादिगुणं त्रिवर्गसिद्धिहेतुतया योग्यम् । दुष्प्रातिवेश्मिकाश्चैवमागमादौ निषिद्धा:- खरीआतिरिक्खजोणीतालायरसमणमाहणसुसाणा। . वगुरिअवाहगुम्मिअहलिएसपुलिंदमच्छंधा ॥ ___ खरिआत्ति द्वयक्षरिका वेश्या, श्रमणाः शाक्याद्याः, स्मशानं, गुल्मिका गुप्तिपालाः, मत्स्यबन्धा मात्सिकाः ।
जूआरचोरनडनट्टभट्टवेसा कुकम्मकारीणं । संवासं वज्जिज्जा, घरहट्टाणं च मित्तीअ ॥ तथा