________________
षष्ठः प्रकाशः
जन्मकृत्यम्
उक्तं वर्षकृत्यम्, अथ जन्मकृत्यं गाथात्रयेणाऽष्टादशभिद्वरैिराहजम्मंमि वासठाणं, तिवग्गसिद्धीइ कारणं उचिअं । उचिअं विज्जागहणं पाणिग्रहणं च मित्ताई ॥ १४॥
जन्मनि जन्मचारकमध्ये पूर्वमुचितं योग्यं वासस्थानं ग्राह्यम् । किं तदुचितमिति विशेषणद्वारेण हेतुमाह - त्रिवर्गस्य धर्मार्थकामलक्षणस्य सिद्धिर्निष्पत्तिस्तस्याः कारणं हेतुः । एवं च यत्र धर्मार्थकामानां त्रयाणामपि सिद्धिः स्यात्तत्र श्रावकेण वस्तव्यं, नान्यत्र भवद्वयभ्रंशापत्तेः । तदुक्तम्
न भिल्लपल्लीषु न चोरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाश्रयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य गर्हिता ॥ तत्र धानि निवसेद् गृहमेधी, संपतन्ति खलु यत्र मुनीन्द्राः । यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥ विद्वत्प्रायो यत्र लोको निसर्गाच्छीलं यस्मिन् जीवितादप्यभीष्टम् । नित्यं यस्मिन् धर्मशीलाः प्रजाः स्युस्तिष्ठेत्तस्मिन् साधुसङ्गो हि भूत्यै ॥ जत्थ पुरे जिणभवणं, समयविऊ साहुसावया जत्थ । तत्थ सया वसिअव्वं, पउरजलं इंधणं जत्थ ॥
त्रिशतीजैनप्रासादसु श्राद्धाद्यलङ्कृते सुशीलविज्ञलोकेऽजयमेर्वासन्नै हर्षपुरे सुस्थाने वसन्तोऽष्टादशसहस्रविप्रास्तद्भक्ताः षट्त्रिंशन्महेभ्याश्च श्रीप्रियग्रन्थसूरीन्द्रागमे प्रबुद्धाः । सुस्थानवासे हि धनवतां गुणवतां