________________
पञ्चमः प्रकाशः
२१७ यत्पुनरालोचति तदुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् । निशीथचूर्णावप्यूचे
तन्न दुक्करं जं पडिसेविज्जइ तं दुक्करं जं सम्मं आलोइज्जइत्ति । अत एवाभ्यन्तरतपोभेदरूपं सम्यगालोचनं, मासक्षपणादिभ्योऽपि दुष्करं लक्षणार्यादीनां तथा श्रवणात् । तदुक्तं
ससल्लो जइवि कट्टगं घोरं वीरं तवं चरे। दिव्वं वाससहस्सं तु, तओ तं तस्स निष्फलं ॥ जह सुकुसलो वि विज्जो, अन्नस्स कहेइ अप्पणो वाहिं ।
एवं जाणंतस्स वि, सल्लुद्धरणं परसगासे ॥ तथाज्ञा तीर्थकृतामाराधिता स्यात् । निःशल्यत्वं स्पष्टम् । उक्तं चैकोनत्रिंशदुत्तराध्ययने-आलोअणयाएणं भंते ! जीवे किं जणयइ ? गोयमा ! आलोअणयाएणं मायानिआणमिच्छादसणसल्लाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ । उज्जुभावं पडिवन्ने अ णं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधइ, पुव्वंबद्धं च णं निज्जरेइ त्ति । एते शोधेरालोचनाया गुणाः ॥११॥
- इति श्राद्धजितकल्पात्तवृत्तेश्च किञ्चिदुद्धृत आलोचनाविधिः । तीव्रतराध्यवसायकृतं बृहत्तरमपि निकाचितमपि बाल-स्त्रीयतिहत्यादेवादिद्रव्यभक्षणराजपत्नीगमनादिकं महापापं सम्यग् विधिवदालोच्य गुरुदत्तं प्रायश्चित्तं विधत्ते, तदा तद्भवेऽपि शुध्यति । कथमन्यथा दृढप्रहारिप्रभृतीनां तद्भवेऽपि सिद्धिरित्यालोचना प्रतिवर्ष प्रतिचातुर्मासकं वा ग्राद्यैव । इति वर्षकृत्य-गाथोत्तरार्धार्थः ।
॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां श्रीश्राद्धविधिप्रकरणवृत्ती
वर्षकृत्यप्रकाशकः पञ्चमः प्रकाशः ॥