________________
२१६
श्राद्धविधिकौमुदीसक्षेपः गारवेणं ति रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । अपिशब्दादपमानप्रायश्चित्तगुरुत्वादिना वा ।
संवेगपरं चित्तं, काऊणं तेहिं तेहिं सुत्तेहिं ।
सल्लाणुद्धरणविवागदंसगाईहिं आलोए ॥ आलोचकस्य दश दोषानाह
आकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा।
छन्नं सद्दाउलयं, बहुजणअवत्ततस्सेवी ॥ आकम्प्य वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्त इत्यभिप्राये प्रथमो दोषः । एवमेष गुरुर्मूदुदण्डप्रद इत्याद्यनुमान्याऽनुमानं कृत्वा । यत्परैदृष्टं तदालोचयति न त्वदृष्टम् ।.. बादरमालोचयति न तु सूक्ष्म, तत्रावज्ञापरत्वात् । सूक्ष्मं तृणग्रहणादिरूपमालोचयति, न तु बादरं सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थम् । छन्नमव्यक्तस्वरम् । तथा शब्दाकुलं यथा गुरुः सम्यग् नावगच्छति, यद्वाऽन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलम् । आलोच्यं बहुजनान् श्रावयति । अव्यक्तस्थानवगतच्छेदग्रन्थरहस्यस्य गुरोरालोचयति । स्वकृतापराधसदृशसेविगुरोः खरंटनादिभियाऽऽलोचयति । एते दश दोषा आलोचकेन वर्जनीयाः । सम्यगालोचने गुणानाह
लहुआ ल्हाईजणणं, अप्पपरनिवत्ति अज्जवं सोही।
दुक्करकरणं आणा निस्सलत्तं च सोहिगुणा ॥ यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्धार आलोचकस्यापि । ल्हादिजननं प्रमोदोत्पादः । आत्मपरयोर्दोषेभ्यो निवृत्तिरालोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तं दृष्ट्वाऽन्येऽप्यालोचनाभिमुखाः स्युरित्यन्येषामपि दोषेभ्यो निवृत्तिः । आर्जवं निर्मायत्ता सम्यगालोचनात् । शोधिः शुद्धताऽतिचारमलापगमात् । दुष्करकरणं दुष्करकारिता यतो यत्प्रतिसेवनं तन्न दुष्करमनादिभवाभ्यस्तत्वात्,