________________
पञ्चमः प्रकाशः
२१५
उपाध्यायस्य, एवं प्रवत्तिनः स्थविरस्य गणावच्छेदिनो वाऽलोचनीयम् । स्वगच्छे पञ्चानामप्यभावे सांभोगिके एकसामाचारिके गच्छान्तरे आचार्यादिक्रमेणालोच्यम् । तेषामप्यभाव इतरस्मिन्नसांभोगिके संविग्ने गच्छे स एव क्रमः । तेषामप्यभावे गीतार्थपार्श्वस्थस्य । तस्याप्यभावे गीतार्थसारूपिकस्य । तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यम् । सारूपिकः शुक्लाम्बरो मुण्डोऽबद्धकच्छो रजोहरणरहितो ब्रह्मचर्योऽ भार्यो भिक्षाग्राही । सिद्धपुत्रस्तु सशिखः सभार्यश्च । पश्चात्कृतः त्यक्तचारित्रवेषो गृहस्थः । पार्श्वस्थादेरपि गुरुवद्वन्दकप्रदानादिविधि: कार्यो विनयमूलत्वाद्धर्मस्य । यदि तु पार्श्वस्थादिः स्वं गुणहीनं पश्यन् वन्दनकं न कारयति, तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्यम् । पार्श्वस्थादीनामप्यभावे यत्र राजगृहे गुणशिलादावर्हद्गणधराद्यैर्बहुशः प्रायश्चित्तप्रदानं यथा देवतया दृष्टं तत्र तस्याः सम्यग्दृष्टेरष्टमाद्याराधनेन प्रत्यक्षाया आलोच्यम् । जातु सा च्युताऽन्योत्पन्ना तदा सा महाविदेहेऽर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगेऽर्हत्प्रतिमानं पुर आलोच्य स्वयं प्रायश्चित्तं प्रतिपद्यते । तासामप्ययोगे पूर्वोत्तरामुखोऽर्हत्सिद्धसमक्षमप्यालोचयेद्, न त्वनालोचित एव तिष्ठेत्, सशल्यस्यानारा·धकत्वात् ।
•
अग्गीओ नवि जाणइ, सोहिं चरणस्स देइ उणहिअं । तो अप्पाणं आलोअगं च पाडेइ संसारे ॥
जह बालो जंपतो, कज्जमकज्जं च उज्जुअं भणइ । तँ तह आलोइज्जा, मायामयविप्पक्को अ ॥ मायाइदोसरहिओ, पइसमयं वड्ढमाणसंवेगो । आलोइज्ज अकज्जं, न पुणो कार्हिति निच्छयओ ॥ लज्जाइगारवेणं, बहुस्सुअमएण वावि दुच्चरिअं । जोन कइ गुरूणं, न हु सो आराहओ भणिओ ||
1