________________
२१४
श्राद्धविधिकौमुदीसङ्क्षपः तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः ।
आयारवं आहारवं ववहारुव्वीलए पकुव्वी य ।
अपरिस्सावी निज्जव अवयदंसी गुरू भणिओ ॥ .. . आचारवान् ज्ञानादिपञ्चप्रकाराचारयुक्, आधारवान् आलोचितापराधानामसामस्त्येन धारणमाधारस्तद्वान्, व्यवहार आगमादिः पञ्चधा । तत्रागमव्यवहारः केवलिमन:पर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु, श्रुतव्यवहारोऽष्टाघेका वसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञेषु, आज्ञा- . व्यवहारो दूरस्थगीतार्थाचार्ययोमिथःसङ्गन्तुमक्षमयोगूढपदैरालोचनाप्रायश्चित्तयोः प्रदानं, धारणाव्यवहारो गुरुणाऽपराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्योऽपि दत्त इत्यादि, जीतं श्रुतोक्तापत्तितो हीनमधिकं वा.. परम्परयाऽऽचीर्णं तेन व्यवहारो जीतव्यवहारः पञ्चमः सम्प्रति मुख्यः । एवं पञ्चविधं व्यवहारं ज्ञात्वा प्रायश्चित्तप्रदाने यः सम्यग् व्यवहरति स व्यवहारवान् । अपव्रीडयति लज्जां मोचयतीत्यपव्रीडकः, आलोचकं लज्जयाऽनालोचयन्तं तथा तथा वैराग्यग) वक्ति, यथा स लज्जां मुक्त्वा सम्यगालोचयतीत्यर्थः । कुर्वेत्यागमप्रसिद्धो धातुर्यस्य विकुर्वणेति प्रयोगः, प्रकुर्वतीत्येवंशीलः प्रकुर्वी, आलोचक्रस्य सम्यग् विशुद्धिकारक इत्यर्थः । आलोचितं योऽन्यस्मै न वक्ति सोऽपरिस्रावी । निर्यापयति निर्वाहयतीति निर्यापः, यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्त इत्यर्थः । सम्यगनालोचकस्य सम्यक् प्रायश्चित्ताऽकर्तुश्च भवद्वयेऽप्यपायदर्शी । एतेऽष्टौ गुरोर्गुणाः ।
आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसगासे । जइ अंतरावि कालं, करिज्ज आराहओ तहवि ॥ आयरिआइ सगच्छे, संभोइअइअरगीअपासत्थे ।
सारूवीपच्छाकहदेवयपडिमा अरिहसिद्धे ॥ साधुना श्राद्धेन वा नियमतः प्रथमं स्वगच्छे आचार्यस्य, तदयोगे