________________
पञ्चमः प्रकाशः
तेस्तीर्थकृत्त्वादिफलत्वात् । उक्तं च
अपुव्वनाणगहणे, सुअभत्तीपवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो ॥
भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना । प्रकारेणाधिका युक्तं, भावनातः प्रभावना ॥
(११) तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो
दातव्या । यतः
प्रतिसंवत्सरं ग्राह्यं प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः ॥ आगमे तु श्रीआबश्यक निर्युक्तावेवमुक्तम्
२१३
चाऊम्मासिअ वरिसें, आलोअणनिअमआ उ दायव्वा । गहणं अभिग्गहाण य पुव्वगहिए निवेएडं ॥ श्राद्धजितकल्पादौ तद्विधिरेवम्
पक्खिअ चाउम्मासे, वरिसे उक्कोसओ अ बारसहिं । निअमा आलोइज्जा, गीआइगुणस्स भणियं च ॥ सल्लुद्धरणनिमित्तं खित्तम्मी सत्तजोअणसयाइं । - का बासवरा, गीअत्थगवेसणं कुज्जा ॥ · गीअत्थो कडजोगी, चारित्ति तह य गाहणांकुसलो । अन्नो अविसाई, भणिओ आलोयणायरिओ ॥ गीतार्थोऽधिगतनिशीथादिश्रुतसूत्रार्थः । कृतोऽभ्यस्तो योगो मनोवाक्कायव्यापारः शुभो विविधतपो वा स यस्याऽस्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मिताऽऽत्मशरीर इत्यर्थः । चारित्री निरतिचारचारित्रवान् । ग्राहणा बहुयुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादितपोविधेरङ्गीकारणं तत्र कुशलः । खेदः सम्यक्प्रायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः । तं जानातीति खेदज्ञः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् । प्रत्युताऽऽलोचनादायकस्य