________________
षष्ठः प्रकाशः
२२१
त्रिपञ्चसप्तदिवसैरुप्तव्रीह्यादिरोहणात् । उत्तमा मध्यमा हीना विज्ञेया त्रिविधा मही ॥ व्याधि वल्मीकिनां नैःस्व्यं शुषिरा स्फुटिता मृतिम् ।
दत्ते भूः शल्ययुग् दुःखं शल्यं ज्ञेयं तु यत्नतः ॥ नृशल्यं नृहान्य, स्वरशल्ये नृपादिभीः, शुनोऽस्थि डिम्भमृत्यै, शिशुशल्यं गृहस्वामिप्रवासाय, गोशल्यं गोधनहान्यै, नृकेशकपालभस्मादि मृत्यै इत्यादि ।
प्रथमाऽन्त्यमवर्ज, द्वित्रिप्रहरसंभवा । छाया वृक्षध्वजादीनां, सदा दुःखप्रदायिनी ॥ वर्जयेदर्हतः पृष्टं, पार्श्व ब्रह्ममधुद्विषोः । चण्डिकासूर्ययोदृष्टिं, सर्वमेव च शूलिनः ॥ वामाङ्गं वासुदेवस्य, दक्षिणं ब्रह्मणः पुनः ।
निर्माल्यं स्नानपानीयं, ध्वजच्छायाविलेपनम् ॥ (वर्जनीयं सदा शंभोरात्मश्रेयोऽर्थिभिर्जनैः) प्रशस्ता शिखरच्छाया, दृष्टिश्चापि तथाऽर्हतः ॥ युग्मम् । 'तथा
वज्जिज्जइ जिणपुट्ठी, रविईसरदिट्ठि विण्हुवासो अ। सव्वत्थ असुहचंडी, तम्हा पुण सव्वहा चयह ॥ अरिहंतदिद्विदाहिणहरपुट्ठीवामएसु कल्लाणं । विवरीए बहुदुक्खं, परं न मग्गंतरे दोसो ॥ ईसाणाईकोणे, नयरे गामे न कीरए गेहं ।
संतलोआण असुहं, अंतिमजाईणरिद्धिकरं ॥ स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन कार्यम् । सुस्थानमप्युचितमूल्यार्पणप्रातिश्मिकानुमत्यादिन्यायेनैव ग्राह्यं, न तु पराभिभवादिना, तथा सति त्रिवर्गहान्याद्यापत्तेः । एवमिष्टिकाकाष्ठपाषाणादिदलमपि निर्दोषं दृढसारत्वादिगुणसुचितमूल्यादिना ग्राह्य