________________
२१०
श्राद्धविधिकौमुदीसक्षेपः भोगाद्यपि चैत्योपयोगि प्रतिवर्षं यथाशक्ति मोच्यम् ॥५॥ __ (६-७) तथा विशिष्टाङ्गी-पत्रभङ्गी-सर्वाङ्गभरण-पुष्पगृह-कदलीगृह-पुत्तलिकाजलयन्त्रादिरचना-नानागीतनृत्ताद्युत्सवैर्महापूजा रात्रिजागरणं च कार्ये । यथैकेन महेभ्येनाऽब्धियात्रां गच्छता लक्षव्ययेन द्वादशवर्ष्या मनोऽभीष्टलाभहृष्टेन तत आगतेन कोटिव्ययेन चैत्ये महापूजादि विदधे ॥६-७॥
(८) तथा श्रुतज्ञानस्य पुस्तकादिस्थस्य कर्पूरादिना पूजामात्रं सर्वदाऽपि सुकरं, प्रशस्तवस्त्रादिभिविशेषपूजा तु प्रतिमासं शुक्लपञ्चम्यां श्रावकस्य कर्तुं युज्यते । तथाप्यशक्तौ जघन्यतोऽपि सा प्रतिवर्षमेकैकवारं कार्या । तद्विस्तरस्तु जन्मकृत्यमध्ये ज्ञानभक्तिद्वारे वक्ष्यते
॥८॥
___(९) तथा नमस्काराऽऽवश्यकसूत्रोपदेशमालोत्तराध्ययनादिज्ञानदर्शनविविधतत्तत्तपःसम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैकमुद्यापनं वर्षे वर्षे यथाविधि कार्यम् । यत:
लक्ष्मीः कृतार्था सफलं तपोऽपि, ध्यानं सदोच्चैर्जनबोधिलाभः । जिनस्य भक्तिर्जिनशासने श्रीर्गुणाः स्युरुद्यापनतो नराणाम् ॥ उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौलौ कलशाधिरोपणम् ।
फलोपरोपोऽक्षतपात्रमस्तके, ताम्बूलदानं कृतभोजनोपरि ॥ दृश्यन्ते हि विधिना नमस्कारलक्षकोटिजापपूर्वं चैत्यस्नात्रमहसाधर्मिकवात्सल्य-सङ्घार्चादिप्रौढाडम्बरेण लक्षकोटि-चोक्षाष्टषष्ठिरैरूप्यवर्तुलिकापट्टिकालेखनीमणिमुक्ताविद्रुमनाणकनालिकेराद्यनेकफलविविधपक्वान्नधान्यखाद्यस्वाद्यकर्पटकादिढौकनादिना नमस्कारस्योपधानोद्वहनादिविधिपूर्वमालारोपणेनाऽऽवश्यकसूत्राणामेवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरवर्तुलिकादिविविधवस्तुढौकनकादिनोपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना