________________
पञ्चमः प्रकाशः
२०९ एवं यात्रां कृत्वा तथैव वलमानः प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाह्वानादिमहं वर्षादि यावत्तीर्थोपवासादि च कुरुते । इति यात्राविधिः ।
श्रीसिद्धसेनदिवाकरप्रबोधितविक्रमादित्यस्य श्रीशत्रुञ्जययात्रासङ्घ एकोनसप्तत्यधिकशतं सौवर्णा देवालयाः, पञ्चशती दन्तचन्दनादिमयाः श्रीसिद्धसेनाद्याः पञ्चसहस्राः सूरयः, चतुर्दश नृपा मुकुटबद्धाः, सप्ततिलक्षाणि श्राद्धकुटुम्बानि, एका कोटिर्दशलक्षाणि नवसहस्री च शकटानि, अष्टादश लक्षाणि तुरङ्गमाः, षट्सप्ततिशतानि गजाः, एवं करभवृषभाद्यपि ज्ञेयम् । श्रीकुमारपालस्य स्वर्णरत्नादिमयाश्चतुःसप्तत्यधिकाऽष्टादशशती देवालयाः । थिरापद्रे पश्चिममण्डलीकेतिख्यातस्य आभूसङ्घपतेस्तु सप्तशतानि, तद्यात्रायां द्वादशकोटिस्वर्णव्ययः । साधुपेथडस्यैकादशरूप्यटङ्कलक्षव्ययस्तीर्थदर्शने, सङ्के देवालया द्वापञ्चाशत्, मनुष्याः सप्त लक्षाः । मन्त्रिवस्तुपालस्य सार्द्धा द्वादश यात्राः प्रसिद्धाः इति यात्रात्रयस्वरूपम् ॥३॥ .: (४) तथा चैत्ये स्नात्रमहोऽपि मेरुभरणाष्टमङ्गली-नैवेद्यादिढौकनभूयस्तर-जात्यचन्दन-केसर-पुष्पभोगाद्यानयन-सकलसमुदायमीलनस्फीतसङ्गीतकाद्याडम्बर-दुकूलादिमहाध्वजप्रदान-प्रभावनादिप्रौढविस्तारेण प्रत्यहं पर्वसु वा कर्तुमशक्तेनापि प्रतिवर्षमेकैकः कार्यः । स्नात्रमहे च स्वविभवकुलप्रतिष्ठाद्यनुसारेण सर्वशक्त्या द्रव्यव्ययाद्याडम्बरेण श्रीजिनमतमहोद्योतहेतौ यतनीयं। श्रूयते हि साधुपेथडेन श्रीरैवते स्नात्रमहामहे षट्पञ्चाशद्धाटीस्वर्णेनेन्द्रमाला परिदधे । श्रीशत्रुञ्जयरैवतयोश्चैक एव काञ्चनमयो ध्वजः प्रददे । तत्पुत्रेण साधुझांझणेन तु दुकूलमय इति स्नात्रम् ॥४॥ .. (५) तथा देवद्रव्यवृद्ध्यर्थं प्रतिवर्षं मालोद्घट्टनं कार्यम् । तत्र च ऐन्द्री अन्या वा माला प्रतिवर्षं यथाशक्ति ग्राह्या । एवं परिधापनिकानव्यधौतिक-विचित्रचन्द्रोदयाऽङ्गरूक्षण-दीपतैलजात्यचन्दनके सर