________________
२०८
श्राद्धविधिकौमुदीसङ्क्षेपः
भङ्गाद्यंन्तराये सर्वशक्त्या सान्निध्यम् । विधत्ते प्रतिग्रामं प्रतिपुरं चैत्येषु च स्नात्रमहाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णचैत्योद्धारणादिचिन्तां च । निर्मिमीते तीर्थदर्शने स्वर्णरत्नमौक्तिकादि-वर्द्धापनलपनेप्सिता-मोदकादि'लम्भनसाधर्मिकवात्सल्ययथोचितदानादिविधिम् । प्रौढप्रवेशोत्सवेन तीर्थप्राप्तश्च सर्वशक्त्या स्वयं कुरुते, परैश्च कारयते प्रथमहर्षपूजाढौकनादिप्रतिपत्तिमष्टोपचारादिविधिपूजां विधिस्नात्रं, मालोद्घट्टनं, घृतधाराप्रदानं, परिधापनिकामोचनम्, नवाङ्गजिनपूजनं, पुष्पगृहकदलीगृहादिमहापूजां, दुकूलादिमयमहाध्वजप्रदानमवारितदानं, रात्रिजागरणं, नानागीतनृत्त्याद्युत्सवं, तीर्थोपवासषष्ठादितपः कोटिला - क्षतादिविविधोद्यापनढौकनं, नानावस्तुफलशताष्टोत्तरिका - चतुर्विंशिंका-. द्वापञ्चाशिका-द्वासप्ततिकादिढौकनं, सर्वभक्ष्यभोज्यभृतस्थालढौकनं, दुकूलादिमयविचित्रचन्द्रोदयपरिधापनिकाङ्गरूक्षण- दीपतैलधौतिकचन्दन- केसरभोग-चङ्गेरी-पिङ्गानिका - कलश-धूपधानकाऽऽरात्रिकाभरण-प्रदीप-चामर-भृङ्गार-स्थाल-कच्चोलक - घण्टा - झल्लरी- पटहादिविचित्रवाद्यादिप्रदानं देवकुलिकादिकारणं, सूत्रधारादिसत्कारं, तीर्थसेवां, विनश्यत्तीर्थाङ्गसमारचनं, तीर्थरक्षकंबहुसन्माननं, तीर्थदायप्रवर्त्तनं, साधर्मिकवात्सल्यं, गुरुसङ्घपरिधापनादिभक्ति, जैनमार्गणदीनाद्युचितदानं चेत्यादि धर्मकृत्यानि । न च मार्गणादीनां दानं कीर्तिमात्रहेतुत्वेन निष्फलं, तेषामपि देवगुरुसङ्घगुणोद्घोषितया दीयमानस्य दानस्य बहुफलत्वात् । जिनागमनवक्तुरपि चक्रयादिभिः सार्द्धद्वादशस्वर्णकोट्यादिदानात् । तदागमः
वित्तीइ सुवन्नस् य, बारस अद्धं च सयसहस्साइं । तावइअं चिअ कोडी, पीईदाणं तु चक्किस्स ॥
१. स्तम्भन इति को० ह० प्र० पाठः ।
,