________________
२११
पञ्चमः प्रकाशः दर्शनादीनामप्युद्यापनानि कुर्वाणाः । मालारोपणं च विशेषधर्मकृत्यं, यतो नमस्कारेर्यापथिक्यादिसूत्राणां यथाशक्तिविधिनोपधानतपो विना भणनगुणनाद्यशुद्धस्तदाराधनार्थं श्राद्धानामवश्यकृत्यमुपधानतपः, साधूनामिव योगोद्वहनम् । तदुद्यापनं च मालारोपणम् । तदवोचाम
उपधानतपो विधिवद्, विधाय धन्यो निधाय निजकण्ठे। 'द्वेधाऽपि सूत्रमालां, द्वेधाऽपि शिवश्रियं श्रयति ॥ मुक्तिकनीवरमाला, सुकृतजलाकर्षणे घटीमाला।
साक्षादिव गुणमाला, माला परिधीयते धन्यैः ॥ एवं शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिना यथाश्रुतसम्प्रदायमुद्यापनानि विधेयानि ॥९॥ ... (१०) तथा. तीर्थप्रभावनानिमित्तं श्रीगुरुप्रवेशोत्सवप्रभावनादि जघन्यतोऽपि प्रतिवर्षमेकैकवारं कार्यम् । तत्र श्रीगुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः । यतः
. अभिगमनवंदणनमंसणेण पडिपुच्छणेण साहूणं ।
. चिरसंचिअं पि कम्मं, खणेण विरलत्तणमुवेइ ॥ (उपदेशमाला २६३) . . साधुपेथडेन तपाश्रीधर्मघोषसूरीणां प्रवेशोत्सवे द्वासप्ततिसहस्रटङ्ककव्ययश्चके । न च संविग्नसाधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं,
आगम उपेत्य तत्करणस्य प्रतिपादितत्वात् । तथाहि साधोः प्रतिमा.ऽधिकारे व्यवहारभाष्ये
तीरिअ-उब्भामनिओअदरिसणं सन्नि साहुमप्पाहे । दंडिअ भोइअ असई, सावगसंघो व सक्कारं ॥ (व्य० भा० ८०८)
तीरितायां समाप्तायां प्रतिमायाम्, उत्प्राबल्येन भ्रमन्त्युद्धमा भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भ्रामकनियोगो ग्रामस्तत्र